शारीरं मानसं दुःखं प्राप्नुवन्ति पुनःपुनः
कुक्ष्यामयं तथा तीव्रं प्राप्नुवंति नराधमाः
एकपक्षहताः काणाः कुनखाश्चामयाविनः
गलत्कुष्ठाः श्वित्रकुष्ठा भवन्ति स्वैश्च कर्मभिः
योनिशूलाक्षिशूलाश्च श्वास हृद्गुह्यशूलिनः 203.
बहुभिर्दारुणैर्घोरैर्व्याधिभिः समनुद्गताः
मिथ्याप्रलापिनो दूतान्पाचयन्तु यथाक्रमम्
एषां चतुर्विधा भाषा या मिथ्याप्यभिधीयते
अरहस्यं रहस्यं वा पैशुन्येन तु निन्दनात्
स्नेहक्षयकरां रूक्षां भिन्नवृत्तविभूषिताम्
स्वरहीनामसंख्येयां भाषंते च निरर्थकम्
दूषयन्ति हि जल्पन्तोऽनृजवो निष्ठुराः शठाः
न मर्षयंति येऽन्येषां कीर्त्यमानाञ्छुभान्गुणान्
ततस्तिर्यक्प्रजायन्ते बहुधा कीट पक्षिणः
तत्र कालं चिरं घोरं पच्यन्ते पापकारिणः 203.
परिभूता अविज्ञाता नष्टचित्ता अकीर्त्तयः
त्यक्त्वा मित्राणि मित्रेषु ज्ञातिभिश्च निराकृताः
अन्यैरपि कृतं पापं तेषां पतति मस्तके
मिथ्याप्रलापिनामेषामुक्ता क्लेशपरम्परा
स्तेयकर्माणि कुर्वन्ति प्रसह्य हरणानि च
पीडयन्ति जनान् सर्वान्कृपणान्ग्रामकूटकान्
समये कृतहर्त्तारो लोकपीडाकरा नराः
भूतनिष्ठाभियोगज्ञा व्यवहारेष्वनर्थकाः
न्यासार्थहारका ये च सम्मोहनकराश्च ये
निरयेष्व प्रतिष्ठेषु दारुणेषु ततस्ततः 203.
कर्मक्षयो यदा तेषां मानुष्यं प्राप्नुवन्ति ते
यस्मिंश्चौरभयं देशे क्षुद्भयं राजतो भयम्
ईतयो यत्र देशेषु लुब्धेषु नगरेषु च
बहुदुःखपरिक्लिष्टा गर्भवासेन पीडिताः
शिराविवृतगात्राश्च हीनाङ्गा वातरोगिणः