वर्षाणामयुतं साग्रं ततो मानुषतां व्रजेत्
अपौगण्डो म्रियेत्पंच कर्मशेषक्षये तु सः 202.
पापस्य सुकृतस्याथ प्रजानां विनिपातने
अतः स्वयम्भुवा पूर्वं कर्मपाको यथार्थवत्
इति श्रीवराहपुराणे संसारचक्रे नारकिदण्डकर्मविपाक वर्णनं नाम द्व्यधिकद्विशततमोऽध्यायः
अथ पापसमूहानुक्रमवर्णनम् अन्यान्यपि च पापानि चित्रगुप्तो दिदेश ह
शीलसंयमहीनानां कृष्णपक्षानुगामिनाम्
राजद्विष्टा गुरुद्विष्टाः सर्वे ते वै विगर्हिताः
हिंसाविहारिणः क्रूराः सूचकाः कार्यदूषकाः
दावाग्निं ये च मुंचन्ति ये च सौकरिकास्तथा
कर्मक्षयाद्यदा भूयो मानुष्यं प्राप्नुवन्ति ते
गर्भ एव विपद्यन्ते म्रियन्ते बालकास्तथा
काष्ठवंशे च शस्त्रे च वायुना ज्वलनेन च
मातापितृवधं कष्टं मित्रसम्बन्धिबन्धुजम्
प्राणातिपातनं ते वै प्राप्नुवन्ति यथा तथा 203.
मूलकर्मकरा ये च गरदाः पुरदाहकाः
पिशुनाः कलहाश्चैव ये च मिथ्याविदूषकाः
उद्वेजनकराश्चण्डाः पच्यन्ते नरकेषु ते
कर्मक्षयो यदा भूयो मानुष्यं प्राप्नुवन्ति ते
श्रवणच्छेदनं चैव नासाच्छेदनमेव च
शारीरं मानसं दुःखं प्राप्नुवन्ति पुनःपुनः
कुक्ष्यामयं तथा तीव्रं प्राप्नुवंति नराधमाः
एकपक्षहताः काणाः कुनखाश्चामयाविनः
गलत्कुष्ठाः श्वित्रकुष्ठा भवन्ति स्वैश्च कर्मभिः
योनिशूलाक्षिशूलाश्च श्वास हृद्गुह्यशूलिनः 203.
बहुभिर्दारुणैर्घोरैर्व्याधिभिः समनुद्गताः
मिथ्याप्रलापिनो दूतान्पाचयन्तु यथाक्रमम्
एषां चतुर्विधा भाषा या मिथ्याप्यभिधीयते
अरहस्यं रहस्यं वा पैशुन्येन तु निन्दनात्
स्नेहक्षयकरां रूक्षां भिन्नवृत्तविभूषिताम्