वृक्षशाखावलम्बोऽत्र ह्यधःशीर्षः प्रजायते
ततो वर्षशते पूर्णे मुच्यते स पुनः पुनः 202.
पूर्वैश्च सूकरो भूत्वा नकुलो जायते पुनः
धिक्कृतः सर्वलोकेन कूटसाक्ष्यनृतव्रतः
इमं ह्यानृतिकं दुष्टं क्षेत्रहारकमेव च
कर्मण्येकैकशश्चायं स तु तिष्ठत्वयं पुनः
ततो जातीः स्मरेत्सर्वास्तिर्यग्योनिं समाश्रितः
सर्वकामविमुक्तस्तु सर्वदोषसमन्वितः
क्वचिन्मूकश्च काणश्च क्वचिद्व्याधिसमन्वितः
जात्यन्तरसहस्राणि प्रयुतान्यर्बुदानि च
तीव्रैरन्तर्गतैर्दुःखैर्भूमिहर्त्ता नराधमः
प्रबद्धः सुचिरं कालं मम लोकं गतो नरः 202.
तीव्रक्षुधापरिक्लिष्टो बद्धो बन्धनयन्त्रितः
सप्तधा सप्त चैकां च जातिं गत्वा स पच्यते
ततः कुक्कुटतां यातु विड्भक्षश्च दुरात्मवान्
जातिकर्म सहस्रं तु ततो मानुषतां व्रजेत्
वर्षाणां च सहस्रं तु धावमानं ततस्ततः
तस्माद्देशात्ततो मुक्तस्ततः सूकरतां व्रजेत्
यां यां याति पुनर्जातिं तत्र भक्ष्यो भवेत्तु सः
प्राप्य मानुषतां पश्चात्पुनर्व्याधो भविष्यति
उच्छिष्टान्नप्रदातारं पापाचारमधार्मिकम्
भिन्नचारित्रदुःशीला भर्त्तुर्व्यलीककारिणी 202.
ततः शुनी भवेत्पश्चात्सूकरी च ततः परम्
न च सौख्यमवाप्नोति तेन दुःखेन दुखिता
भक्ष्यं भोज्यं च पानं च न तेषामुपपादितम्
एवं कुरुत भद्रं वो मम पार्श्वे तु दुर्मतिः
सर्वकर्माणि कुर्वाणं क्षपयध्वं दुरासदम्
प्रक्षिप्यतामयं पश्चाद्दस्युजातौ दुरात्मवान्
ततः पश्चाद्भवेत्पापश्चेतरः सर्वपापकृत्
हस्त्यश्वश्च शृगालश्च सूकरो बक एव च