जायतां च ततः पश्चाच्छूनां योनौ दुरात्मवान्
प्राप्तवान्विविधान्रोगान्संसारे चैव दारुणान् 202.
वर्षाणां तु शतं पंच तत्र क्लिष्टो दुरात्मवान्
शकुन्तो जायते घोरस्तत्र पश्चाद्वृको भवेत्
स्वकर्मसु विहीनेषु पश्चाल्लब्धगतिस्तथा
तत्रापि दारुणं दुःखमुपभुंक्ते दुरात्मवान्
एवं कर्मसमायुक्तास्ते भवन्तु सहस्रशः
कुम्भीपाकेषु निर्दग्धः पश्चाद्गर्दभतां गतः
प्राप्नोतु विविधांस्तापान्यथा हृतधनश्च सन्
मानुष्यं समनुप्राप्य चौरो भवति पापकृत्
वृक्षशाखावलम्बोऽत्र ह्यधःशीर्षः प्रजायते
ततो वर्षशते पूर्णे मुच्यते स पुनः पुनः 202.
पूर्वैश्च सूकरो भूत्वा नकुलो जायते पुनः
धिक्कृतः सर्वलोकेन कूटसाक्ष्यनृतव्रतः
इमं ह्यानृतिकं दुष्टं क्षेत्रहारकमेव च
कर्मण्येकैकशश्चायं स तु तिष्ठत्वयं पुनः
ततो जातीः स्मरेत्सर्वास्तिर्यग्योनिं समाश्रितः
सर्वकामविमुक्तस्तु सर्वदोषसमन्वितः
क्वचिन्मूकश्च काणश्च क्वचिद्व्याधिसमन्वितः
जात्यन्तरसहस्राणि प्रयुतान्यर्बुदानि च
तीव्रैरन्तर्गतैर्दुःखैर्भूमिहर्त्ता नराधमः
प्रबद्धः सुचिरं कालं मम लोकं गतो नरः 202.
तीव्रक्षुधापरिक्लिष्टो बद्धो बन्धनयन्त्रितः
सप्तधा सप्त चैकां च जातिं गत्वा स पच्यते
ततः कुक्कुटतां यातु विड्भक्षश्च दुरात्मवान्
जातिकर्म सहस्रं तु ततो मानुषतां व्रजेत्
वर्षाणां च सहस्रं तु धावमानं ततस्ततः
तस्माद्देशात्ततो मुक्तस्ततः सूकरतां व्रजेत्
यां यां याति पुनर्जातिं तत्र भक्ष्यो भवेत्तु सः
प्राप्य मानुषतां पश्चात्पुनर्व्याधो भविष्यति