ततस्तावश्विनौ देवौ मार्त्तण्डमुपतस्थतुः । ऊचतुः स्वरुचिं तावत् किं कर्त्तव्यमथावयोः ।। २०.
मार्त्तण्ड उवाच । पुत्रौ प्रजापतिं देवं भक्त्याराधयतां वरम् । नारायणं स वो दाता वरं नूनं भविष्यति ।। २०.
एवं तावश्विनौ प्रोक्तौ मार्त्तण्डेन महात्मना । तेपतुस्तीव्रतपसौ तपः परमदुश्चरम् । ब्रह्मपारमयं स्तोत्रं जपन्तौ तु समाहितौ ।। २०.
तयोः कालेन महता ब्रह्मा नारायणात्मकः । तुतोष परमप्रीत्या वरं चैतं ददौ तयोः ।। २०.
प्रजापाल उवाच । अश्विभ्यामीरितं स्तोत्रं ब्रह्मणोऽव्यक्तजन्मनः । श्रोतुमिच्छाम्यहं ब्रह्मंस्त्वत्प्रसादान्महामुने ।। २०.
महातपा उवाच । श्रृणु राजन् यथा स्तोत्रमश्विभ्यां ब्रह्मणः कृतम् । ईदृशं च फलं प्राप्तं तयोः स्तोत्रस्य चानघ ।। २०.
ॐनमस्ते निष्क्रिय निष्प्रपञ्च निराश्रय निरपेक्ष निरालम्ब निर्गुण निरालोक निराधार निर्जय निराकार । ब्रह्मन् महाब्रह्मन् ब्राह्मणप्रिय पुरुष महापुरुषोत्तम । देव महादेवोत्तम स्थाणो स्थितस्थापक । भूत महाभूत भूताधिपति यक्ष महायक्ष यक्षाधिपते । गुह्य महागुह्याधिपते सौम्य महासौम्य सौम्याधिपते । पक्षि महापक्षिपते दैत्य महादैत्याधिपते । रुद्र महारुद्राधिपते विष्णु महाविष्णुपते । परमेश्वर नारायण प्रजापतये नमः । एवं स्तुतस्तदा ताभ्यामश्विभ्यां स प्रजापतिः । तुतोष परमप्रीत्या वाक्यं चेदमुवाच ह ।। २०.
वरं वरयतां शीघ्रं देवैः परमदुर्लभम् । येन मे वरदानेन चरतस्त्रिदिवं सुखम् ।। २०.
अश्विनावूचतुः । आवयोर्यज्ञभागं तु देहि देव प्रजापते । सोमपत्वं च देवानां सामान्यत्वं च शाश्वतम् ।। २०.
ब्रह्मोवाच । रूपं कान्तिरनौपम्यं भिषक्त्वं सर्ववस्तुषु । सोमपत्वं च लोकेषु सर्वमेतद् भविष्यति ।। २०.
एतत् सर्वं द्वितीयायामश्विभ्यां ब्रह्मणा पुरा । दत्तं यस्मादतस्तेषां तिथीनामुत्तमा तिथिः ।। २०.
एतस्यां रूपकामस्तु पुष्पाहारो भवेन्नरः । संवत्सरं शुचिर्नित्यं सुस्वरूपी भवेन्नरः । अश्विभ्यां ये गुणाः प्रोक्तास्ते तस्यापि भवन्ति च ।। २०.
य इदं श्रृणुयान्नित्यमश्विभ्यां जन्म चोत्तमम् । सर्वपापविनिर्मुक्तः पुत्रवान् जायते नरः ।। २०.
महातपा उवाच । पूर्वं प्रजापतिर्देवः सिसृक्षुर्विविधाः प्रजाः । चिन्तयामास धर्मात्मा यदा ता नाध्यगच्छत ।। २१.
तदाऽस्य कोपात् संजज्ञे स च रुद्रः प्रतापवान् । रोदनात् तस्य रुद्रत्वं संजातं परमेष्ठिनः ।। २१.
तस्य ब्रह्मा शुभां कन्यां भार्यार्थं मूर्त्तिसंभवाम् । गौरी नाम्ना स्वयं देवी भारती तां ददौ पिता ।। २१.
रुद्रायामितदेहाय स्वयं ब्रह्मा प्रजापतिः । स तां लब्ध्वा वरारोहां मुदा परमया युतः ।। २१.
सर्गकालेषु तं ब्रह्मा तपसा प्रत्युवाच ह । रुद्र प्रजाः सृजस्वेति पौनःपुन्येन चोदितः । असमर्थोऽहमिति जले निमज्जत महाबलः ।। २१.
तपोर्थित्वं तपोहीनः स्त्रष्टुं शक्नोति न प्रजाः । एवं चिन्त्य जले मग्नस्ततो रुद्रः प्रतापवान् ।। २१.
तस्मिन् निमग्ने देवेशे तां ब्रह्मा कन्यकां पुनः । अन्तःशरीरगां कृत्वा गौरीं परमशोभनाम् ।। २१.
पुनः सिसृक्षुर्भगवानसृजत् सप्त मानसान् । दक्षं च तेषामारभ्य प्रजाः सम्यग् व्यवर्द्धिताः ।। २१.
तत्र दाक्षायणीपुत्राः सर्वे देवाः सवासवाः । वसवोऽष्टौ च रुद्राश्च आदित्या मरुतस्तथा ।। २१.
साऽपि दक्षाय सुश्रोणी गौरी दत्ताथ ब्रह्मणा । दुहितृत्वे पुरा या हि रुद्रेणोढा महात्मना ।। २१.
सा च दाक्षायणी देवी पुनर्भूता नृपोत्तम । ततो दक्षः प्रहृष्टात्मा दौहित्रान् स्वान् स वृद्धिकृत् । दृष्ट्वा यज्ञमथारेभे प्रीणनाय प्रजापतिः ।। २१.
तत्र ब्रह्मसुताः सर्वे मरीच्यादय एव च । चक्रुरार्त्त्विज्यकं कर्म्म स्वे स्वे मार्गे व्यवस्थिताः ।। २१.
ब्रह्मा स्वयं मरीच्यस्तु बभूवाऽन्ये तथापरे । अत्रिस्तु यज्ञकर्मस्थ आग्नीध्रस्त्वङ्गिरा भवत् ।। २१.
होता पुलस्त्यस्त्वभवदुद्गाता पुलहोऽभवत् । क्रतौ क्रतुस्तु प्रस्तोता तदा यज्ञे महातपाः ।। २१.
प्रतिहर्ता प्रचेतास्तु तस्मिन् क्रतुवरे बभौ । सुब्रह्मण्यो वसिष्ठस्तु सनकाद्याः सभासदः । तत्र याज्यः स्वयं ब्रह्मा स च इज्यस्तु पूज्यते ।। २१.
पूज्या दक्षस्य दौहित्रा रुद्रादित्याङ्गिरादयः । प्रत्यक्षपितरस्ते हि तैः प्रीतैः प्रीयते जगत् ।। २१.
तत्र भागार्थिनो देवा आदित्या वसवस्तथा । विश्वेदेवाः सपितरो गन्धर्वाद्या मरुद्गणाः ।। २१.