पापकर्मायमत्यर्थं सर्व तीर्थविनाशकः
आदेश्य चोभयोरस्य कर्णयोः कूटसाक्षिकः 202.
ग्रामयाजनकं विप्रमध्रुवं दांभिकं शठम्
जिह्वाऽस्य छिद्यतां शीघ्रं वाचा दुष्टस्य पापिनः
कृतं लोभाभिभूतेन कामसम्मोहितेन च
इमं तु खलकं कृत्वा दुरात्मा पापकारिणम्
इमं वार्धुषिकं विप्रं सर्वत्रांगेषु भेदय
सुवर्णस्तेयिनं पापं कृतघ्नं च तथा नरम्
अस्थि च्छित्वा ततः क्षिप्रं क्षारमग्निं च दापय
पिशुनं हि महाव्याघ्राः पंच घोराः सुदारुणाः
येनाग्निरुज्झितः पूर्वं गृहीत्वा च न पूजितः
कर्कटस्य तु घोरस्य नित्यक्रुद्धस्य मोचय 202.
सर्वेषां तु पशूनां यो नित्यं धारयते जलम्
अदानव्रतिनो विप्रा वेदविक्रयिणस्तथा
तोयभाजनहर्त्तारं भोजनं योऽनिवारयन्
वेणुदण्डकशाभिश्च लोहदण्डैस्तथैव च
तस्मा अन्नं च पानं च न दातव्यं कदाचन
ब्रह्मदेयं हृतं येन तं वै शीघ्रं विपाचय
समुत्तीर्णं ततः पश्चात्तिर्यग्योनौ प्रपातये
क्लिष्टो जातिसहस्रैस्तु जायते मानुषस्ततः
हिंसारूपेण घोरेण ब्रह्मवध्यां प्रदापयेत्
सुवर्णस्तेयिनं चैव सुरापं चैव कारयेत् 202.
गोघातको ह्ययं पापः कूटशाल्मलिमारुहेत्
पूतिपाकेषु पच्येत जन्तुभिः संप्रयोजितः
उद्विग्नवासं पतितं यत्र यत्रोपपद्यते
अयं तिष्ठति किं पापः पितृघाती दुरात्मवान्
ततः पाकेषु घोरेषु पच्यतां च नराधमः
व्यापन्नो दशगर्भेषु ततः पश्चाद्विमुच्यताम्
बुभुक्षारुग्विकारैश्च सततं तत्र पीड्यताम्
यन्त्रेण पीड्यतां क्षिप्रं ततः पश्चाद्विमुच्यताम्