उपस्थानं च कुर्वन्ति कालचिंतकमब्रुवन्
तदैवोत्तिष्ठ तिष्ठेति क्षम्यतां क्षम्यतां प्रभो
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे राक्षसकिंकरयुद्धं नामैकाधिकद्विशततमोऽध्यायः
अथ नारकिदण्डनकर्मविपाकवर्णनम् विस्मयस्तु मया दृष्टस्तस्मिन्नद्भुतदर्शनः
प्राप्नुवन्ति फलं ते वै ये च क्षिप्ताः पुरा जनाः
सन्तप्ता बहवो ये ते तैस्तैः कर्मभिरुल्बणैः
दुराचारं पापरतं निर्घृणं पापचेतसम्
पितृघ्नो मातृगोघ्नस्तु सर्वदोषसमन्वितः
एनं पाचय तैलस्य घृतक्षौद्रस्य वा पुनः ६ !। नराधममिमं क्षिप्त्वा प्रदीप्ते हव्यवाहने
शयनासनहर्त्तारमग्निदायी च यो नरः
पापकर्मायमत्यर्थं सर्व तीर्थविनाशकः
आदेश्य चोभयोरस्य कर्णयोः कूटसाक्षिकः 202.
ग्रामयाजनकं विप्रमध्रुवं दांभिकं शठम्
जिह्वाऽस्य छिद्यतां शीघ्रं वाचा दुष्टस्य पापिनः
कृतं लोभाभिभूतेन कामसम्मोहितेन च
इमं तु खलकं कृत्वा दुरात्मा पापकारिणम्
इमं वार्धुषिकं विप्रं सर्वत्रांगेषु भेदय
सुवर्णस्तेयिनं पापं कृतघ्नं च तथा नरम्
अस्थि च्छित्वा ततः क्षिप्रं क्षारमग्निं च दापय
पिशुनं हि महाव्याघ्राः पंच घोराः सुदारुणाः
येनाग्निरुज्झितः पूर्वं गृहीत्वा च न पूजितः
कर्कटस्य तु घोरस्य नित्यक्रुद्धस्य मोचय 202.
सर्वेषां तु पशूनां यो नित्यं धारयते जलम्
अदानव्रतिनो विप्रा वेदविक्रयिणस्तथा
तोयभाजनहर्त्तारं भोजनं योऽनिवारयन्
वेणुदण्डकशाभिश्च लोहदण्डैस्तथैव च
तस्मा अन्नं च पानं च न दातव्यं कदाचन
ब्रह्मदेयं हृतं येन तं वै शीघ्रं विपाचय
समुत्तीर्णं ततः पश्चात्तिर्यग्योनौ प्रपातये
क्लिष्टो जातिसहस्रैस्तु जायते मानुषस्ततः