अदृश्याश्चैव दृश्याश्च तद्बलं तमसावृताः
शूलपाणिं विरूपाक्षं सर्वप्राणिप्रणाशनम्
खादन्ति चैव घ्नन्ति स्म चित्रगुप्तेन चोदिताः 201.
वयमद्य महाभाग त्रायस्व जगतः पते
ज्वरः क्रुद्धो महातेजा योधानां तु सहस्रशः
विविधान्सन्दिदेशाऽत्र पुरुषानग्निवर्चसः
पच शीघ्रमिमान्पापान्योगेन च बलेन च
ज्वराज्ञया च ते सर्वे जीमूतघननिःस्वनाः
बहुशस्त्रप्रहारैश्च शस्त्रैश्च विविधोज्ज्वलैः
मोचयामास संग्रामं स्वयमेव यमस्ततः
गत्वा ज्वरं महाभागं विनयात्सान्त्वयन्मुहुः
प्रविवेश गृहं स्वं तु सम्भ्रमेणेदृशेन तु
धर्मराजोऽथ विश्रान्तं कालभूतं महाज्वरम् 201.
रोषायासकरं चैव सर्वलोकनमस्कृतः
शासेमहि यथाकामं यथादृष्टं यथाश्रुतम्
लोकान्सर्वानहं हन्मि सर्वघाती न संशयः
राक्षसानां हतास्तत्र षष्टिकोट्यो रणाजिरे
ततो ह्युपरतं युद्धं धर्मराजो यमः स्वयम्
सम्भाषन्ते ततो दूताश्चित्रगुप्तं तथैव च
स्वकर्मगुणभूतानि ह्यशुभानि शुभानि च
उपस्थानं च कुर्वन्ति कालचिंतकमब्रुवन्
तदैवोत्तिष्ठ तिष्ठेति क्षम्यतां क्षम्यतां प्रभो
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे राक्षसकिंकरयुद्धं नामैकाधिकद्विशततमोऽध्यायः
अथ नारकिदण्डनकर्मविपाकवर्णनम् विस्मयस्तु मया दृष्टस्तस्मिन्नद्भुतदर्शनः
प्राप्नुवन्ति फलं ते वै ये च क्षिप्ताः पुरा जनाः
सन्तप्ता बहवो ये ते तैस्तैः कर्मभिरुल्बणैः
दुराचारं पापरतं निर्घृणं पापचेतसम्
पितृघ्नो मातृगोघ्नस्तु सर्वदोषसमन्वितः
एनं पाचय तैलस्य घृतक्षौद्रस्य वा पुनः ६ !। नराधममिमं क्षिप्त्वा प्रदीप्ते हव्यवाहने
शयनासनहर्त्तारमग्निदायी च यो नरः