यथा ह्येते समुत्पन्नाः सर्वधर्मानुचिन्तकाः
मा च मिथ्या प्रतिज्ञातं धर्मिष्ठस्य भवत्विति
परित्रायस्व नो वीर किंकराणां महाबलान् 201.
एवमुक्त्वा ततो घोरा व्याधयः कामरूपिणः
गजैरन्ये तथा चाश्वै रथैश्चापि महाबलाः
मृगैः सृगालैर्महिषैर्व्याघ्रैर्मेषैस्तथापरे
एवं वाहनसंयुक्ता नानाप्रहरणोद्यताः
तूर्यक्ष्वेडितसंघुष्टैर्बलितास्फोटितैरपि
ततः समभवद्युद्धं तस्मिंस्तमसि सन्तते
सकुण्डलैः शिरोभिश्च भ्राजते वसुधातलम्
शूल शक्तिप्रहारैश्च यष्टितोमरपट्टिशैः
अभवद्दारुणं युद्धं तुमुलं लोमहर्षणम्
बाहुभिः समनुप्राप्तः केशाकेशि ततः परम् 201.
ततस्ते राक्षसा भग्ना दूतैर्घोरपराक्रमैः
वध्यमानाः पिशाचास्ते ये निवृत्ता रणार्दिताः
तिष्ठ तिष्ठ क्व यासीति न गच्छामि दृढो भव
किन्तु मूढ त्वया शस्त्रं न मुक्तं मे रुजाकरम्
किं त्वं वदसि दुर्बुद्धे एषोऽहं पारगो रणे
तत्र ते सहसा घोरा राक्षसाः पिशिताशनाः
ततो भग्ना यदा ते तु राक्षसाः कामरूपिणः
अदृश्याश्चैव दृश्याश्च तद्बलं तमसावृताः
शूलपाणिं विरूपाक्षं सर्वप्राणिप्रणाशनम्
खादन्ति चैव घ्नन्ति स्म चित्रगुप्तेन चोदिताः 201.
वयमद्य महाभाग त्रायस्व जगतः पते
ज्वरः क्रुद्धो महातेजा योधानां तु सहस्रशः
विविधान्सन्दिदेशाऽत्र पुरुषानग्निवर्चसः
पच शीघ्रमिमान्पापान्योगेन च बलेन च
ज्वराज्ञया च ते सर्वे जीमूतघननिःस्वनाः
बहुशस्त्रप्रहारैश्च शस्त्रैश्च विविधोज्ज्वलैः
मोचयामास संग्रामं स्वयमेव यमस्ततः