चित्रगुप्तो महाबाहुः सर्वलोकार्थचिन्तकः
ततस्ते विविधाकारा राक्षसा पिशिताशनाः
बद्धगोधाङ्गुलित्राणा नानायुधधरास्तथा 201.
ब्रुवन्तश्च पुनर्हृष्टाः शीघ्रमाज्ञापय प्रभो
तेषां तद्वचनं श्रुत्वा चित्रगुप्तो ह्यभाषत
भो भो मन्देहका वीराः मम चित्तानुपालकाः
एवं हत्वा च बद्ध्वा च ह्यागच्छत पुनर्यथा
हत्वा वै पापकानेतान्मम विप्रियकारिणः
राक्षसा ऊचुः अमात्या एव ज्ञातव्या भृत्याः शतसहस्रशः
एते वधार्थं निर्दिष्टास्त्वयैव च महात्मना
यथा ह्येते समुत्पन्नाः सर्वधर्मानुचिन्तकाः
मा च मिथ्या प्रतिज्ञातं धर्मिष्ठस्य भवत्विति
परित्रायस्व नो वीर किंकराणां महाबलान् 201.
एवमुक्त्वा ततो घोरा व्याधयः कामरूपिणः
गजैरन्ये तथा चाश्वै रथैश्चापि महाबलाः
मृगैः सृगालैर्महिषैर्व्याघ्रैर्मेषैस्तथापरे
एवं वाहनसंयुक्ता नानाप्रहरणोद्यताः
तूर्यक्ष्वेडितसंघुष्टैर्बलितास्फोटितैरपि
ततः समभवद्युद्धं तस्मिंस्तमसि सन्तते
सकुण्डलैः शिरोभिश्च भ्राजते वसुधातलम्
शूल शक्तिप्रहारैश्च यष्टितोमरपट्टिशैः
अभवद्दारुणं युद्धं तुमुलं लोमहर्षणम्
बाहुभिः समनुप्राप्तः केशाकेशि ततः परम् 201.
ततस्ते राक्षसा भग्ना दूतैर्घोरपराक्रमैः
वध्यमानाः पिशाचास्ते ये निवृत्ता रणार्दिताः
तिष्ठ तिष्ठ क्व यासीति न गच्छामि दृढो भव
किन्तु मूढ त्वया शस्त्रं न मुक्तं मे रुजाकरम्
किं त्वं वदसि दुर्बुद्धे एषोऽहं पारगो रणे
तत्र ते सहसा घोरा राक्षसाः पिशिताशनाः
ततो भग्ना यदा ते तु राक्षसाः कामरूपिणः