सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् । ततोऽहं विस्मयार्विष्टश्चिन्ताशोकसमन्वितः ।। २.
तामेव शरणं गत्वा यावत् पश्यामि पार्थिव । तावद् दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ।। २.
तस्यापि पंसो हृदये त्वपरस्तस्य चोरसि । अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ।। २.
एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः । क्षणेन तत्र कन्यैका न तान् पश्यामि सुव्रत ।। २.
ततः पृष्टा मया देवी सा कुमारी कथं मम । वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् ।। २.
कन्योवाच । माताऽहं सर्ववेदानां सावित्री नाम नामतः । मां न जानासि येन त्वं ततो वेदा हृतास्तव ।। २.
एवमुक्ते तया राजन् विस्मयेन तपोधन । पृष्टा क एते पुरुषा एतत्कथय शोभने
कन्योवाच य एष मच्छरीरस्थः सर्वाङ्गैश्चारुलोचनः । एष ऋग्वेदनामा तु देवो नारायणः स्वयम् । वह्निभूतो दहत्याशु पापान्युच्चारणादनु ।। २.
एतस्य हृदये योऽयं दृष्ट आसीत् त्वयात्मजः । स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः ।। २.
तस्याप्युरसि संविष्टो य एष शुचिरुज्ज्वलः । स सामवेदनामा तु रुद्ररूपी व्यवस्थितः । एष आदित्यवत् पापान्याशु नाशयते स्मृतः ।। २.
एते त्रयो महावेदा ब्रह्मन् देवास्त्रयः स्मृताः । एते वर्णा अकाराद्याः सवनान्यत्र वै द्विज ।। २.
एतत्सर्वं समासेन कथितं ते द्विजोत्तम । गृहाण वेदान् शास्त्राणि सर्वज्ञत्वं च नारद ।। २.
एतस्मिन् वेदसरसि स्नानं कुरु महाव्रत । कृते स्नानेऽन्यजन्मीयं येन स्मरसि सत्तम ।। २.
एवमुक्त्वा तिरोभावं गता कन्या नराधिप । अहं तत्र कृतस्नानस्त्वां दिदृक्षुरिहागतः ।। २.
प्रियव्रत उवाच । अन्यस्मिन् भगवन् जन्मन्यासीद् यत् तद् विचेष्टितम् । सर्वं कथय देवर्षे महत् कौतूहलं हि मे ।। ३.
नादरद उवाच । स्नातस्य मम राजेन्द्र तस्मिन् वेदसरस्यथ । सावित्र्याश्च वचः श्रुत्वा तस्मिन् जन्मसहस्त्रकम् । स्मरणं तत्क्षणाज्जातं श्रृणु जन्मान्तरं मम ।। ३.
अस्त्यवन्तीपुरं राजंस्तत्राहं प्राग् द्विजोत्तमः । नाम्ना सारस्वतः पूर्वं वेदवेदाङ्गपारगः ।। ३.
बहुभृत्यपरीवारो बहुधान्यश्च पार्थिव । अन्यस्मिन् कृतसंज्ञे तु युगे परमबुद्धिमान् ।। ३.
ततो ध्यातं मयैकान्ते किमनेन करोम्यहम् । द्वन्द्वेन सर्वमेतद्धि न्यस्त्वा पुत्रेषु याम्यहम् । तपसे धृतसंकल्पः सरः सारस्वतं द्रुतम् ।। ३.
एवं चिन्त्य मया इष्टः कर्मकाण्डेन केशवः । श्राद्धैश्च पितरो देवा यज्ञैश्चान्ये तथा जनाः ।। ३.
ततोऽहं निर्गतो राजंस्तपसे धृतमानसः । सारस्वतं नाम सरो यदेतत् पुष्करं स्मृतम् ।। ३.
तत्र गत्वा मया विष्णुः पुराणः पुरुषः शिवः । आराधितो मया भक्त्या जपं नारायणात्मकम् ।। ३.
ब्रह्मपारमयं राजन् जपता परमं स्तवम् । ततो मे भगवांस्तुष्टः प्रत्यक्षत्वं जगाम ह ।। ३.
प्रियव्रत उवाच । कीदृशं ब्रह्मपारं तु श्रोतुमिच्छामि सत्तम । कथयस्व प्रसादेन देवर्षे सुप्रसन्नधीः ।। ३.
नारद उवाच । परं पराणाममृतं पुराणं पारं परं विष्णुमनन्तवीर्यम् । नमामि नित्यं पुरुषं पुराणं परायणं पारगतं पराणाम् ।। ३.
पुरातनं त्वप्रतिमं पुराणं परापरं पारगमुग्रतेजसम् । गम्भीरगम्भीरधियां प्रधानं नतोऽस्मि देवं हरिमीशितारम् ।। ३.
परात्परं चापरमं प्रधानं परास्पदं शुद्धपदं विशालम् । परात्परेशं पुरुषं पुराणं नारायणं स्तौमि विशुद्धभावः ।। ३.
पुरा पुरं शून्यमिदं ससर्ज्ज तदा स्थितत्वात् पुरुषः प्रधानः । जने प्रसिद्धः शरणं ममास्तु नारायणो वीतमलः पुराणः ।। ३.
पारं परं विष्णुमपाररूपं पुरातनं नीतिमतां प्रधानम् । धृतक्षमं शान्तिधरं क्षितीशं शुभं सदा स्तौमि महानुभावम् ।। ३.
सहस्त्रमूर्धानमनन्तपाद- मनेकबाहुं शशिसूर्यनेत्रम् । क्षराक्षरं क्षीरसमुद्रनिद्रं नारायणं स्तौम्यमृतं परेशम् ।। ३.