मातरं पितरं चैव पुत्रान्दारांस्तथा प्रियान्
हा त्राहि त्राहि पुत्रेति क्रन्दमानस्ततस्ततः
मुष्टिभिश्च कशाभिश्च व्यालैरङ्कगतैरपि
एवमेवात्मकर्माणि पर्यायेण पुनः पुनः
पातकानि च चत्वारि समाचारेण पंचमम्
तदादिषु च सर्वेषु गुणान्तरपथं गतः 200.
तदा वा स्थावरे तेषु जातस्य हि भवेन्नरः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
ततो निवृत्तकर्मा तु स्वेदजः सम्भवेत्पुनः
ततश्च पक्षिणां योनिं सर्वां संतरते पुनः
मानुषे शूद्रतां याति लब्ध्वा यदि तु तुष्यति
वैश्यात्क्षत्रियतां याति तस्माच्च ब्राह्मणो भवेत्
दुःशिक्षितेन मनसा ह्यात्मद्रोग्धा भवेत्तदा
उपयुक्तो नरो जातः पूर्वकर्मभिरन्वितः
सुरापः श्यावदन्तश्च पूतिगन्धश्च पापकृत्
सुवर्णहर्ता च नरो ब्रह्मघ्नेन समो हि सः
यावद्भिः कर्मभिस्तैस्तैस्तेषु निर्याणवेश्मसु
व्याप्तं महीतलं सर्वमापगाश्चापि निर्गताः
समुत्तस्थौ महानादो हाहाकारसमाकुलः
लौहयष्टिप्रहारैश्च आयुधैश्च सुदारुणैः
श्रान्ताः कर्मकरा दूता मोहेनायत्तचेतसः
विज्ञापयेत्तदा दूताश्चित्रगुप्तं महौजसम्
इति श्रीवराहपुराणे संसारचक्रे नरकयातनास्वरूपवर्णनं नाम द्विशततमोऽध्यायः
अथ राक्षसकिंकरयुद्धम् ततस्ते सहिताः सर्वे चान्योऽन्याभिरताः सदा
दूता ऊचुः वयमन्यत्करिष्यामः स्वामिन्कार्यं सुदुष्करम्
अन्ये हि तावत्तत्कुर्युर्यथेष्टं तव सुव्रत
ततो विवृत्तरक्ताक्षस्तेन वाक्येन रोषितः
अदूरे दृष्टवान्कंचित्पुरुषं स ह्यनाकृतिम्
निःसृतः स च रोषेण चित्रगुप्तेन धीमता
नानारूपधरा घोरा नानाभरणभूषिताः