शीतकामस्य वै चोष्णमुष्णकामस्य शीतलम्
छिन्नाश्च शतधाप्येवं ह्यनिशं तैः सहस्रशः
सलिलं च नदीं घोरां व्यालाकीर्णां भयानकाम्
करम्भवालुका नाम शतयोजनमायता
ततो वैतरणी नाम क्षारोदा तु महानदी
अगाधपङ्का वै तत्र चर्ममांसास्थिभेदना
उलूकाश्च धनुर्मात्रा वज्रजिह्वास्थिभेदनाः 200.
समुत्तीर्य तु कृच्छ्रेण तस्माद्योजनकर्दमात्
यत्र वै मूषिकगणा भक्षयन्ति ह्यनेकशः
प्रभाते वायुना स्पृष्टः पुनर्मांसं स विन्दति
सहकारवनं नाम रौद्रा यत्र च पक्षिणः
निःशिराजालकश्चैव निरक्षिश्रवणस्तथा
सन्ध्याभ्र इव चाभाति प्रदीप्तो नित्यमेव तु
यमचुल्लीति विख्याता गम्भीरा सा त्रियोजनम्
तत्र प्रेतसहस्राणि प्रयुतान्यर्बुदानि च
चुल्लीकुक्षौ तु विश्रान्ता वेगिनी वहते तु सा 200.
एकैकं दुस्तरं घोरं यथापूर्वं यथाक्रमात्
दश तत्र लताः शूलाः कुम्भीपाकास्त्रयोदश
राक्षसैर्निरनुक्रोशैर्दुर्निरीक्ष्यैस्ततस्ततः
शुष्कोदपाने धूमे च अधःशीर्षोऽवलम्बते
करीषगर्त्ते स पुनः पच्यते मेदवह्निना
यातनाः सप्तकास्तस्य निष्क्रान्तस्य त्रियोजने
समुत्तीर्य तु कृच्छ्रेण दह्यमानस्त्वचेतनः
दीर्घिकां मोक्षते कान्तां शीतोदां शीतकाननाम्
भक्ष्यं भोज्यं च सर्वैस्तु पापिभिस्तत्र लभ्यते
ततः शूलवहो नाम पर्वतः शतयोजनः 200.
तत्र वर्षति पर्जन्यस्तत्र तप्तजलं सदा
शृङ्गारकवनं नाम तत्र पश्यन्ति शाद्वलम्
यैस्तु स्पृष्टश्च दष्टश्च कृमिरूपश्च जायते
ततोऽन्यल्लभते चैव यातनार्थं प्रयत्नतः