तत्र चैव ह्रदे नैका मत्स्याः खादन्ति सर्वशः
किञ्चिदन्तरमागम्य वेदनार्थाः पतन्ति हि
शिरस्येवोपविष्टस्य प्रस्थितस्य प्रधावतः
करीषगर्त्तस्तत्रैव कुम्भीपाकः सुदारुणः
पाटयन्ति सुमार्गेण राक्षसाः करपत्रिकाः
असिपत्रवनं चात्र शृङ्गाटकवनं तथा
दह्यते छिद्यते चैव विध्यते भिद्यते पथा 200.
श्यामाश्च शबलाश्चैव श्वानस्तेऽत्र दुरासदाः
कण्टकैः प्रतिकूलैश्च तत्रान्या कूट शाल्मलिः
यद्दुःखं तस्य दुर्बुद्धेः प्रतिकूलं च तस्य यत्
शीतकामस्य वै चोष्णमुष्णकामस्य शीतलम्
छिन्नाश्च शतधाप्येवं ह्यनिशं तैः सहस्रशः
सलिलं च नदीं घोरां व्यालाकीर्णां भयानकाम्
करम्भवालुका नाम शतयोजनमायता
ततो वैतरणी नाम क्षारोदा तु महानदी
अगाधपङ्का वै तत्र चर्ममांसास्थिभेदना
उलूकाश्च धनुर्मात्रा वज्रजिह्वास्थिभेदनाः 200.
समुत्तीर्य तु कृच्छ्रेण तस्माद्योजनकर्दमात्
यत्र वै मूषिकगणा भक्षयन्ति ह्यनेकशः
प्रभाते वायुना स्पृष्टः पुनर्मांसं स विन्दति
सहकारवनं नाम रौद्रा यत्र च पक्षिणः
निःशिराजालकश्चैव निरक्षिश्रवणस्तथा
सन्ध्याभ्र इव चाभाति प्रदीप्तो नित्यमेव तु
यमचुल्लीति विख्याता गम्भीरा सा त्रियोजनम्
तत्र प्रेतसहस्राणि प्रयुतान्यर्बुदानि च
चुल्लीकुक्षौ तु विश्रान्ता वेगिनी वहते तु सा 200.
एकैकं दुस्तरं घोरं यथापूर्वं यथाक्रमात्
दश तत्र लताः शूलाः कुम्भीपाकास्त्रयोदश
राक्षसैर्निरनुक्रोशैर्दुर्निरीक्ष्यैस्ततस्ततः
शुष्कोदपाने धूमे च अधःशीर्षोऽवलम्बते