तत्र छिन्नाश्च दग्धाश्च हन्यमानाश्च सर्वशः
असितालवनद्वारि ये तिष्ठन्ति महारथाः
भो भो पापसमाचारा धर्मसेतुविनाशकाः
भोगैश्च पीडिता नित्यं उत्पत्स्यथ सुदुर्गताः 199.
पक्षिणश्चायसैस्तुण्डैर्व्याघ्राश्चैव सुदारुणाः
खादंति रुषितास्तत्र बहवो हिंसका नरान्
असितालवने विप्रा बहुदुःखसमाकुले
असिपत्र सुभग्नाङ्गाः शूललग्नास्तथाऽपरे
पुष्करिण्यश्च वाप्यश्च ह्रदा नद्यस्तथैव च
पूतिमांसकृमीणां च अमेध्यस्य तथैव च
तत्र क्लिश्यन्ति ते पापास्तस्मिन्मध्ये सहस्रशः
अस्थिपाषाणवर्षाणि रुधिरस्य बलाहकाः
धावतां प्लवतां चैव हा हतोऽस्मीति भाषिणाम्
क्रन्दतां करुणोन्मिश्रं दिशोऽपूर्यन्त सर्वशः 199.
क्वचित्स्थूलैस्तथा बद्धः उद्बद्धश्च क्वचित्तथा
अपश्यं पुनरन्यत्र यत्स्मृत्वा चोद्विजेन्नरः
इति श्रीवराहपुराणे संसारचक्रे यातनास्वरूप वर्णनं नाम नवनवत्यधिकशततमोऽध्यायः
पुनः नरकयातनास्वरूपवर्णनम् तप्तं चैव महातप्तं महारौरवरौरवौ
अन्धकारश्च नरको अन्धकारवरस्तथा
प्रथमे प्रथमं विद्याद्द्वितीये द्विगुणं तथा
पञ्चमे तु गुणाः पञ्च षष्ठे षङ्गुणमुच्यते
अहोरात्रेण चाध्वानं प्रेता गच्छन्ति तत्पुरम्
दुःखमेवात्र न सुखं दुःखैर्दुःखं विवर्ध्यते
मुच्यते च मृतस्तत्र मारकास्तत्र दुर्लभाः
न सुखं तत्र तस्यास्ति किञ्चिदेवात्र विद्यते
आयसैः कण्टकैस्तीक्ष्णैस्तप्तैस्तप्तावृता मही
अतीव च बुभुक्षात्र पिपासा चाप्यतीव हि 200.
पातुकामश्च पानीयं राक्षसैर्नीयते सरः
पातुकामश्च पानीयं सहसा तत्र धावति
ततः पक्वानि मांसानि राक्षसैः परिणीयते