आलोके च प्रदर्श्यन्ते वृक्षाश्च भुवनानि च
तत्र गत्वा तु ते दूताः प्रविशन्ति सुदारुणाः
अथान्ये तु श्वभिर्घोरैरापादतलमस्तकम्
अथान्ये तु महारूपा महादंष्ट्रा भयानकाः
अन्नानि दीयमानानि भक्ष्याणि विविधानि च 199.
अयःशरमयी नारी वह्नितप्ता सुदारुणा
धावन्तं चानुधावंती त्विदं वचनमब्रवीत्
मातृष्वसा ते दुर्बुद्धे मातुलानी पितृष्वसा
श्रोत्रियाणां द्विजातीनां जाया वै धर्षितास्त्वया
किं प्रधावसि निर्लज्ज व्यसनैश्चोपपादितः
एवं वै बोधयन्तीह श्रावयन्ति पुनःपुनः
ज्ञानिनां च सहस्रेषु जातं जातं तथा स्त्रियः
वृषलीर्बहुलैर्दुःखैः किं क्रन्दसि पुनः पुनः
दशधा त्वं मया पाप नीयमानः पुनःपुनः
न मोक्ष्यसे मया पाप कुतो गच्छसि मूढ वै 199.
तत्र तत्रैव पाप त्वां न त्यक्ष्ये पारदारिकम्
गोपाला इव दण्डेन कालयन्तो मुहुर्मुहुः
भक्ष्यन्ते श्वापदैरन्यैः श्वभिः काकैस्तथाऽपरे
दावाग्निसदृशाकारं प्रदीप्तं सर्वतोऽर्चिषा
दह्यमानान्सुतप्तांश्च संश्रयन्ते द्रुमान्पुनः
तत्र छिन्नाश्च दग्धाश्च हन्यमानाश्च सर्वशः
असितालवनद्वारि ये तिष्ठन्ति महारथाः
भो भो पापसमाचारा धर्मसेतुविनाशकाः
भोगैश्च पीडिता नित्यं उत्पत्स्यथ सुदुर्गताः 199.
पक्षिणश्चायसैस्तुण्डैर्व्याघ्राश्चैव सुदारुणाः
खादंति रुषितास्तत्र बहवो हिंसका नरान्
असितालवने विप्रा बहुदुःखसमाकुले
असिपत्र सुभग्नाङ्गाः शूललग्नास्तथाऽपरे
पुष्करिण्यश्च वाप्यश्च ह्रदा नद्यस्तथैव च
पूतिमांसकृमीणां च अमेध्यस्य तथैव च