अधस्तात्तु पुनस्तत्र पश्यन्तः पापकर्मिणः
भो देव पाहि मुञ्चेति वदन्तः पुरुषं वचः 198.
पाषाणवर्षैः केचित्तु पांसुवर्षैश्च विद्रुताः
द्रवन्ति च पुनस्तत्र दूतैश्चापि दृढं हताः
वारिपूर्णं ततः कुम्भं शीतलं च जलं पुनः
ततः पानीयरूपेण जलं तप्तं तु दीयते
आलिङ्ग्यालिङ्ग्य दुःखार्त्ताः केचित्तत्र पतन्ति वै
अन्नानां च सुमिष्टानां भक्ष्याणां च विशेषतः
दधिक्षीररसांश्चैव कृसरान्पायसं तथा
माध्वीकस्य च पानस्य सीधोर्जातीरसस्य च
गोरसस्य च पानानि भाजनानि च नित्यशः
माल्यानि धूपं गन्धाश्च नानारससमायुताः 198.
भोजनेषु च सर्वेषु स्त्रियः कान्ता मनोहराः
फलानि कुण्डहस्ताश्च पात्रहस्तास्तथापराः
अन्नदानरताश्चैव भोजयन्ति सहस्रशः
उपस्थाप्य महायोग्यमत्र काले च योषितः
निघ्नन्तश्च हसन्तश्च दूता निष्ठुरवादिनः
पापाशया निष्कृतिकाः सर्वदानविवर्जिताः
निर्लज्जा गृहका देया याचितुं मनसा हिताः
पानीयमथ काष्ठानि यद्यन्नं सुखमागतम्
कुलेषु सुदरिद्रेषु सञ्जाताः पापकर्मिणः 198.
वृत्तस्था भुञ्जते हेमांश्चातुर्वर्ण्यान्विशेषतः
इह विश्राम्य ते धीराः किंचित्कालं सहानुगाः
बहुसुन्दरनारीके समृद्धे सुसमाहिताः
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्र यातनानां स्वरूपवर्णनं नामाष्टनवत्यधिकशततमोऽध्यायः
पुनः संसारचक्रयातनास्वरूपवर्णनम् तस्मिन् क्षितितलं सर्वमायसैः कण्टकैश्चितम्
अथान्ये छिन्नपादास्तु छिन्नपाणिशिरोधराः
ये तु धर्मरता दाता वपुष्मन्तो यथा गृहे
याचमानाः स्थिता नित्यं सुशीतैस्तोयभोजनैः
कृत्वा पूजां परां तत्र प्रतीक्षन्ते परं जनम्