वक्तव्यश्च महाबाहुरस्मिन्विप्रे यथातथम्
ततोऽहं त्वरितं नीतस्तेन दूतेन दर्शितः 198.
प्रत्युत्थितश्च मां दृष्ट्वा चिन्तयित्वा तु तत्त्वतः
एवं सम्भाष्य मां वीरः स्वान्भृत्यान्सन्दिदेश ह
चित्रगुप्त उवाच भक्तिमन्तो दुराधर्षा नित्यं व्रतपरायणाः
अयं विप्रो मयादिष्टः प्रेतावासं गमिष्यति
नैव दुःखेन खेदः स्यान्न चोष्णेन च शीततः
एवं दत्तवरो विप्रो गुरुचित्तानुचिन्तकः
यथाकाममयं पश्येद्धर्म्मराजपुरोत्तमम्
ऋषिपुत्र उवाच धावन्तस्त्वरमाणास्तु गृह्णन्तो घ्नन्त एव च
बन्धयन्ति महाकाया निर्दहन्ति महाबलाः
वेणुयष्टिप्रहारैश्च प्रहरन्ति ततोऽधिकैः 198.
रुदन्ति करुणं घोरं त्रातारं नाप्नुवन्ति ते
केचिच्च तेषु पच्यन्ते दह्यन्ते पावकेन्धनम्
पतन्ति ते दुरात्मानस्तत्र तत्र च कर्मभिः
केचिद्यन्त्रमुपारोप्य संपीड्यन्ते तिला इव
ततो वैतरणी घोरा संभूता निम्नगा तथा
अथान्ये शूल आरोप्य दूताः पादेषु गृह्य वै
नानुष्णे रुधिरे तत्र फेनमालासमाकुलाः
अनुत्तार्य तदा तस्या उच्छ्रिता विकृतावशाः
तत्र शुष्यन्ति ते पापाः सर्वदोषसमन्विताः
अथान्ये बहवस्तत्र बहुभिश्चापि दूतकैः 198.
असिशक्तिप्रहारैश्च ताडयन्ति पुनःपुनः
कूष्माण्डा यातुधानाश्च लंबमाना भयानकाः
वेदनार्त्तास्तु वेगेन शीघ्रं शाखा उपारुहन् ।। तत्र ते निहता घोरा राक्षसाः पिशिताशनाः
घ्नन्ति चारूढगात्राणि निःशङ्कं तमसा वृतम्
यथा च कुक्कुटं खादेत् कश्चिन्म्लेच्छो निराकृतः
पक्वमाम्रफलं यद्वन्नरः खादेद्यथा वने
चूषयित्वा तु तान्सर्वांस्ते च तस्मिन्नगोत्तमे
ततो जवेन संयुक्ता वनस्थाश्चूषिताः पुनः