पतिव्रतास्तु या नार्यो दुःखितास्तपसि स्थिताः
तस्मात्त्वं सर्वदेवेषु चैको धर्मभृतां वरः 198.
वैशम्पायन उवाच परितुष्टस्तदा धर्मो ह्यौद्दालकसुतं प्रति
यम उवाच याथातथ्येन वाक्येन ब्रूहि किं करवाणि ते
वरं वरय भद्रं ते यं वरं काङ्क्षसे द्विज
ऋषिपुत्र उवाच यदि त्वं वरदो राजन्सर्वभूतहिते रतः
द्रष्टुमिच्छाम्यहं देव तव देशं यथातथम्
सर्वं दर्शय मे राजन्यदि त्वं वरदो मम
दर्शयस्व महाभाग सर्वलोकस्य चिन्तक
एवमुक्तो महातेजा द्वारस्थं संदिदेश ह
वक्तव्यश्च महाबाहुरस्मिन्विप्रे यथातथम्
ततोऽहं त्वरितं नीतस्तेन दूतेन दर्शितः 198.
प्रत्युत्थितश्च मां दृष्ट्वा चिन्तयित्वा तु तत्त्वतः
एवं सम्भाष्य मां वीरः स्वान्भृत्यान्सन्दिदेश ह
चित्रगुप्त उवाच भक्तिमन्तो दुराधर्षा नित्यं व्रतपरायणाः
अयं विप्रो मयादिष्टः प्रेतावासं गमिष्यति
नैव दुःखेन खेदः स्यान्न चोष्णेन च शीततः
एवं दत्तवरो विप्रो गुरुचित्तानुचिन्तकः
यथाकाममयं पश्येद्धर्म्मराजपुरोत्तमम्
ऋषिपुत्र उवाच धावन्तस्त्वरमाणास्तु गृह्णन्तो घ्नन्त एव च
बन्धयन्ति महाकाया निर्दहन्ति महाबलाः
वेणुयष्टिप्रहारैश्च प्रहरन्ति ततोऽधिकैः 198.
रुदन्ति करुणं घोरं त्रातारं नाप्नुवन्ति ते
केचिच्च तेषु पच्यन्ते दह्यन्ते पावकेन्धनम्
पतन्ति ते दुरात्मानस्तत्र तत्र च कर्मभिः
केचिद्यन्त्रमुपारोप्य संपीड्यन्ते तिला इव
ततो वैतरणी घोरा संभूता निम्नगा तथा
अथान्ये शूल आरोप्य दूताः पादेषु गृह्य वै
नानुष्णे रुधिरे तत्र फेनमालासमाकुलाः
अनुत्तार्य तदा तस्या उच्छ्रिता विकृतावशाः