इत्थंभूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् । उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो । यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ।। १९.
ब्रह्मोवाच । देवानामथ यक्षाणां गन्धर्वाणां च सत्तम । आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ।। १९.
त्वत्पदात् प्रतिपदं चान्या संभविष्यन्ति देवताः । अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ।। १९.
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना । होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ।। १९.
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः । देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ।। १९.
यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने । क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ।। १९.
चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते । तेजस्वी रूपसंपन्नो द्रव्यवान् जायते नरः ।। १९.
इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते । तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ।। १९.
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः । अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ।। १९.
प्रजापाल उवाच । एवमग्नेः समुत्पत्तिर्जाता ब्रह्मन् महात्मनः । प्राणापानौ कथं देवावश्विनौ संबभूवतुः ।। २०.
मरीचिर्ब्रह्मणः पुत्रः स्वयं ब्रह्मा द्विसप्तभिः । रूपैर्व्यवस्थितस्तेषां मरीचिः श्रेष्ठतामगात् ।। २०.
तस्य पुत्रो महातेजाः कश्यपो नाम वै मुनिः । स्वयं प्रजापतिः श्रीमान् देवतानां पिताऽभवत् ।। २०.
तस्य पुत्रा बभूवुर्हि आदित्या द्वादश प्रभो । अदित्यपत्यानि ते सर्वे आदित्यास्तेन कीर्तिताः ।। २०.
तेषां मध्ये महातेजा मार्त्तण्डो लोकविश्रुतः । नारायणात्मकं तेजो द्वादशं संप्रकीर्तितम् ।। २०.
ये ते मासास्त आदित्याः स्वयं संवत्सरो हरिः । एवं ते द्वादशादित्या मार्त्तण्डश्च प्रधानवान् ।। २०.
तस्य त्वष्टा ददौ कन्यां संज्ञां नाम महाप्रभाम् । तस्यापत्यद्वयं जज्ञे यमश्च यमुना तथा ।। २०.
तस्य तेजोऽप्यसहती बभूवाश्वी मनोजवा । स्वां छायां तत्र संस्थाप्य सा जगमोत्तरान् कुरून् ।। २०.
तद्रूपां तां सवर्णां तु भेजे मार्त्तण्डभास्करः । तस्या अपि द्वयं जज्ञे शनिं तपतिमेव च ।। २०.
यदा त्वसदृशं भेजे पुत्रान् प्रति नरोत्तम । संज्ञां प्रोवाच भगवान् क्रोधसंरक्तलोचनः । असमत्वं न कर्त्तव्यं स्वेष्वपत्येषु भामिनि ।। २०.
एवमुक्ता यदा सा तु असमत्वं व्यरोचत । तदा यमः स्वपितरं प्रोवाच भृशदुःखितः ।। २०.
नेयं माता भवेत् तात अस्माकं शत्रुवत् सदा । सपत्नीव वृथाचारा स्वेस्वपत्येषु वत्सला ।। २०.
एवं यमवचः श्रुत्वा सा छाया क्रोधमूर्च्छिता । शशाप प्रेतराजस्त्वं भविष्यस्यचिरादिव ।। २०.
एवं श्रुत्वाऽथ मार्त्तण्डस्तदा पुत्रहितैषया । उवाच मध्यवर्ती त्वं भविता धर्मपापयोः । लोकपालश्च भविता त्वं पुत्र दिवि शोभसे ।। २०.
शनिं शशाप मार्त्तण्डश्छायाकोपप्रधर्षितः । त्वं क्रूरदृष्टिर्भविता मातृदोषेण पुत्रक ।। २०.
एवमुक्त्वा समुत्थाय योगं भानुर्दिदृक्षया । तामपश्यत्त्वसौ साश्वी उत्तरेषु कुरुष्वथ ।। २०.
ततोऽश्वरूपं कृत्वा स गत्वा तत्रोत्तरान् कुरून् । प्राजापत्येन मार्गेण युयोजात्मानमात्मना ।। २०.
तस्यां त्वाष्ट्र्यामश्वरूप्यां मार्त्तण्डस्तीव्रतेजसः । बीजं निर्वापयामास तज्ज्वलन्तं द्विधाऽपतत् ।। २०.
तत्र प्राणस्त्वपानश्च योनौ चात्मजितौ पुरा । वरदानेन च पुनर्मूर्त्तिमन्तौ बभूवतुः ।। २०.
तौ त्वाष्ट्र्यामश्वरूपिण्यां जातौ येन नरोत्तमौ । ततस्तावश्विनौ देवौ कीर्त्त्येते रविनन्दनौ ।। २०.
प्रजापतिः स्वयं भानुस्त्वाष्ट्री शक्तिः परापरा । तस्याः प्राग्वच्छरीरस्थावमूर्त्तौ मूर्तिमाश्रितौ ।। २०.