केचित्तु तत्र पुरुषाः सर्वशोभाविशोभिताः
स्रग्विणो बद्धपादाश्च सर्वाभरणभूषिताः
सशक्तितोमराः केचित्सधनुष्का दुरासदाः
सज्जिता दधिहस्ताश्च गन्धहस्ता ह्यनेकशः
धूपान्प्रगृह्य विविधान्वासांसि शुभदर्शनाः
वाजिकुञ्जरयुक्तानि हंसयुक्तानि चापरे
मयूरैः सारसैश्चैव चक्रवाकैश्च वाजिभिः 197.
उज्ज्वला मलिनाश्चैव जीर्णवस्त्रा नवांशुकाः
समार्जारी काचवर्णा कृष्णा चैव कलिस्तथा
एते पुरोगमास्तत्र कृतान्तस्य महात्मनः
नमस्कार्याश्च पूज्याश्च आपन्नेन हि नित्यशः
इति श्रीवराहपुराणे संसारचक्रे कृतान्तकालमृत्युकिङ्करवर्णनं नाम सप्तनवत्यधिकशततमोऽध्यायः
अथ संसारचक्रयातनास्वरूपवर्णनम् मामेकमृषभं तत्र दर्शनं च ददौ यमः
याथातथ्येन मे पूजा कार्येण विधिनाऽकरोत्
अब्रवीच्च पुनर्हृष्टो ह्यास्यतां च वरासने
तस्य वक्त्रं महारौद्रं नित्यमेव भयानकम्
लोहिते तस्य वै नेत्रे जल्पतश्च पुनःपुनः
ततोऽहं तस्य भावेन भावितश्च पुनःपुनः
तस्य प्रीतिकरं सद्यः सर्वदोषविनाशनम्
कालवृद्धिकरं स्तोत्रं क्षिप्रं तत्र उदीरयन्
ऋषिपुत्र उवाच पितॄणां परमो देवश्चतुष्पाद नमोऽस्तु ते
कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः 198.
कर्म कारयिता चैव भूतभव्य भवत्प्रभो
दण्डपाणे विरूपाक्ष पाशहस्त नमोऽस्तु ते
कृष्णवर्ण दुराधर्ष तैलरूप नमोऽस्तु ते
हव्यकव्यवहस्त्वं हि प्रभविष्णो नमोऽस्तु ते
एकदृग्बहुदृग्भूत्वा काल मृत्यो नमोऽस्तु ते
क्वचिद्बालः क्वचिद्वृद्धः क्वचिद्रौद्रो नमोऽस्तु ते
प्रत्यक्ष्यं दृश्यते देव त्वां विना न च सिध्यति
जपानां परमं जप्यं त्वत्तश्चान्यो न दृश्यते