. निरुक्तमतिवादाश्च सामगान्धर्वशोभिताः
तत्र चैव मया दृष्टा ऋषयः पितरस्तथा
तस्य पार्श्वे मया दृष्टः कृष्णवर्णो महाहनुः
वामबाहुश्च दण्डेन प्रवरेण समन्वितः
शिक्षार्थे धर्मराजेन सन्दिष्टः स पुनः पुनः
तथान्ये चापरे तत्र शासनेषु समाहिताः
यमेन पूज्यमाना सा दिव्यगन्धानुलेपनैः 197.
अतः परं न कर्त्तव्यं साधनं कथितं बुधैः
असुराश्च सुराश्चैव योगिनश्च महौजसः
तस्याङ्गेभ्यः समुद्भूता व्याधयः क्लेशसम्भवाः
पौरुषेण समायुक्ताः सर्वलोकनयायताः
महासत्त्वो महातेजाः जरामरणवर्जितः
गायका हासकाश्चैव सर्वजीवप्रबोधकाः
दिव्याभरणशोभाभिः शोभमानाः सुतेजसः
पर्यास्तरणसंछन्नेष्वासनेषु तथा परे
अनेकाश्च नरास्तत्र वेदनाश्च सुदारुणाः
कामक्रोधविचारिण्यो नानारूपधराः स्त्रियः 197.
तासां हलहलाशब्दः सर्वासां च समन्ततः
कूष्माण्डा यातुधानाश्च राक्षसाः पिशिताशनाः
एकबाहुर्द्विबाहुश्च त्रिबाहुर्बहुबाहुकः
केचित्तु तत्र पुरुषाः सर्वशोभाविशोभिताः
स्रग्विणो बद्धपादाश्च सर्वाभरणभूषिताः
सशक्तितोमराः केचित्सधनुष्का दुरासदाः
सज्जिता दधिहस्ताश्च गन्धहस्ता ह्यनेकशः
धूपान्प्रगृह्य विविधान्वासांसि शुभदर्शनाः
वाजिकुञ्जरयुक्तानि हंसयुक्तानि चापरे
मयूरैः सारसैश्चैव चक्रवाकैश्च वाजिभिः 197.
उज्ज्वला मलिनाश्चैव जीर्णवस्त्रा नवांशुकाः
समार्जारी काचवर्णा कृष्णा चैव कलिस्तथा
एते पुरोगमास्तत्र कृतान्तस्य महात्मनः