वादित्रगीतस्वनतालयुक्ता गायन्ति नार्यः सहिताः सदा हि
कुर्वन्ति संहर्षमिव स्वनेन मनोज्ञरूपा दिवि देवतानाम्
प्रासादकुञ्जेषु विहार्यमाणा न तृप्तिमेवं बहु ताः प्रयान्ति
क्वचित् सुगन्धः प्रचचार भूयः प्रासादरोधं प्रविरूढमार्गः
तथाऽपरे क्रीडनकाः सकान्ताः सुवर्णवेदीकृतसानुशोभाः
शक्यो विभागो न हि रम्यताया ह्यसौ दिनैर्वा बहुभिः प्रवक्तुम्
इति श्रीवराहपुराणे संसारचक्रे धर्मराजपुरवर्णनं नाम षण्णवत्यधिकशततमोऽध्यायः
ऋषिपुत्र उवाच प्राकारेण परिक्षिप्तं प्रासादशत शोभितम्
समालिखदिवाकाशं प्रदीप्तमिव तेजसा
नानायन्त्रैः समाकीर्णं ज्वालामालासमायुतम्
प्रवेशस्तत्र तेषां हि विहितो धर्मदर्शिनाम्
मानुषाणां सुकृतिनां प्रवेशस्तत्र निर्मितः
आयसं गोपुरं तत्र दक्षिणं भीमदर्शनम्
प्रवेशो हि ततस्तेन विहितो रविसूनुना
पापानां चैव सर्वेषां ये चान्ये घातकारकाः
गोपुरं पश्चिमं तच्च दुर्निरीक्षं समन्ततः
दुष्कृतीनां प्रवेशार्थं यमेन विहितं स्वयम् 197.
सर्वरत्नमयी दिव्या वैवस्वतनियोजिता
जितक्रोधैरलुब्धैश्च वीतरागैस्तपस्विभिः
सा सभा सर्वलोकस्य शुभस्यैवाशुभस्य च
अनिर्वर्त्यं यथा कर्म शास्त्रदृष्टेन कर्मणा
चिन्तयन्ति च कार्याणि सर्वलोकहिताय ते
ततः सर्वे च तत्सर्वं चिन्तयन्ति सुयन्त्रिताः
अत्रिरौद्दालकिश्चैव आपस्तम्बश्च वीर्यवान्
शङ्खश्च लिखितश्चैव ह्यङ्गिरा भृगुरेव च
यमेन सहिताः सर्वे चिन्तयन्ति प्रतिक्रियाम्
कुण्डलाभ्यां पिनद्धाभ्यामङ्गदाभ्यां महातपाः 197.
तेजसा वचसा चैव दुर्निरीक्ष्यो महाबलः
तस्य पार्श्वे महादिव्या ऋषयो ब्रह्मवादिनः
वेदार्थानां विचारज्ञाः सत्यधर्मपुरस्कृताः