प्रमदाश्च जले तत्र कामरूपाः सुमेखलाः
तां नदीं क्षोभयन्त्यस्ताः क्रीडन्ति सहिताः प्रियैः
जलतूर्यनिनादेन भूषणानां स्वनेन च
वैवस्वती नाम महानदी सा शुभा नदीनां प्रवराऽतिरम्या
तोयानुरूपा च मनोहरा च दिव्येन तोयेन सदैव पूर्णा
रथाङ्गसाह्वैः प्रवरैश्च पद्मैः प्रतप्तजाम्बूनद कर्णिकाभिः
यस्यास्तु तोयं विमलं सुगन्धि स्वादु प्रसन्नं त्वमृतोपमं च
नार्यः सुरूपा मदविह्वलाश्च क्रीडन्ति ता यत्र मनोज्ञरूपाः
या देवतानामपि पूजनीया तपोनिधीनां च तथा मुनीनाम्
जलं च दत्तं बहुभिर्नरैश्च तस्याः स्वरूपप्रतिमा च निष्ठा 196.
वादित्रगीतस्वनतालयुक्ता गायन्ति नार्यः सहिताः सदा हि
कुर्वन्ति संहर्षमिव स्वनेन मनोज्ञरूपा दिवि देवतानाम्
प्रासादकुञ्जेषु विहार्यमाणा न तृप्तिमेवं बहु ताः प्रयान्ति
क्वचित् सुगन्धः प्रचचार भूयः प्रासादरोधं प्रविरूढमार्गः
तथाऽपरे क्रीडनकाः सकान्ताः सुवर्णवेदीकृतसानुशोभाः
शक्यो विभागो न हि रम्यताया ह्यसौ दिनैर्वा बहुभिः प्रवक्तुम्
इति श्रीवराहपुराणे संसारचक्रे धर्मराजपुरवर्णनं नाम षण्णवत्यधिकशततमोऽध्यायः
ऋषिपुत्र उवाच प्राकारेण परिक्षिप्तं प्रासादशत शोभितम्
समालिखदिवाकाशं प्रदीप्तमिव तेजसा
नानायन्त्रैः समाकीर्णं ज्वालामालासमायुतम्
प्रवेशस्तत्र तेषां हि विहितो धर्मदर्शिनाम्
मानुषाणां सुकृतिनां प्रवेशस्तत्र निर्मितः
आयसं गोपुरं तत्र दक्षिणं भीमदर्शनम्
प्रवेशो हि ततस्तेन विहितो रविसूनुना
पापानां चैव सर्वेषां ये चान्ये घातकारकाः
गोपुरं पश्चिमं तच्च दुर्निरीक्षं समन्ततः
दुष्कृतीनां प्रवेशार्थं यमेन विहितं स्वयम् 197.
सर्वरत्नमयी दिव्या वैवस्वतनियोजिता
जितक्रोधैरलुब्धैश्च वीतरागैस्तपस्विभिः
सा सभा सर्वलोकस्य शुभस्यैवाशुभस्य च