अथ धर्मराजपुरवर्णनम् तेषां तद्वचनं श्रुत्वा ऋषीणां भावितात्मनाम्
नाचिकेत उवाच योजनानां सहस्रं तु विस्तराद्द्विगुणायतम्
द्विगुणं परिवेषेण तद्वै प्रेतपतेः पुरम्
हर्म्यप्रासादसंबाधमहाट्टालसमन्वितम्
कैलासशिखराकारैर्भवनैरुपशोभितम्
दीर्घिकाश्च तथा कान्ता नलिन्यश्च सरांसि च
नरनारीसमाकीर्णा गजवाजिसमाकुलाः
सर्वजीवैस्तथाकीर्णं तस्य राज्ञः पुरोत्तमम्
क्वचिद्गायन् हसंश्चैव क्वचिद्दुःखेन दुःखितः
क्वचिन्नृत्यन्क्वचित्तिष्ठन् क्वचिद्बन्धनसंस्थितः 196.
स्वकर्मभिः प्रदृश्यन्ते स्थूलाः सूक्ष्माश्च जन्तवः
अङ्गानि चैव सीदन्ति मनो विह्वलतीव मे
तथापि कथयिष्यामि यथादृष्टं तथाश्रुतम्
दृश्यते न च दृश्येत नानावृक्षसमाकुला
प्रसन्नेन च तोयेन शीतलेन सुगन्धिना
भ्राजते सरितां श्रेष्ठा सर्वपापप्रणाशिनी
अमराः क्रीडमानाश्च जलक्रीडां पुनःपुनः
भुजङ्गावनताङ्ग्यश्च किन्नर्यश्च सुगायनाः
एवं नारीसहस्राणि तत्र दिव्यानि नित्यशः
तत्रापरे वृक्षषण्डा नित्यपुष्पफलान्विताः 196.
प्रमदाश्च जले तत्र कामरूपाः सुमेखलाः
तां नदीं क्षोभयन्त्यस्ताः क्रीडन्ति सहिताः प्रियैः
जलतूर्यनिनादेन भूषणानां स्वनेन च
वैवस्वती नाम महानदी सा शुभा नदीनां प्रवराऽतिरम्या
तोयानुरूपा च मनोहरा च दिव्येन तोयेन सदैव पूर्णा
रथाङ्गसाह्वैः प्रवरैश्च पद्मैः प्रतप्तजाम्बूनद कर्णिकाभिः
यस्यास्तु तोयं विमलं सुगन्धि स्वादु प्रसन्नं त्वमृतोपमं च
नार्यः सुरूपा मदविह्वलाश्च क्रीडन्ति ता यत्र मनोज्ञरूपाः
या देवतानामपि पूजनीया तपोनिधीनां च तथा मुनीनाम्
जलं च दत्तं बहुभिर्नरैश्च तस्याः स्वरूपप्रतिमा च निष्ठा 196.