गृहं शरीरमित्युक्तं तत्पतिस्त्वं यतोऽधुना । अतो वै गार्हपत्यस्त्वं भव सर्वगतो विभो ।। १८.
विश्वान् नरान् हुतो येन नयसे सद्गतिं प्रभो । अतो वैश्वानरो नाम तव वाक्यं भविष्यति ।। १८.
द्रविणं बलमित्युक्तं धनं च द्रविणं यतः । ददाति तद् भवानेव द्रविणोदास्ततोऽभवत् ।। १८.
तनुं पास्यतनुं पासि येन त्वं सर्वदा विभो । ततस्तनूनपान्नाम तव वत्स भविष्यति ।। १८.
भवान् जातानि वै वेद अजातानि च येन वै । अतस्ते नाम भवतु जातवेदा इति प्रभो ।। १८.
नाराः सामान्यतः पुंसो विशेषेण द्विजातयः । ते शंसन्ति यतस्त्वां तु नाराशंसस्ततो भव ।। १८.
अगस् तिरोभवेन्नित्यं निःशब्दो निश्चयात्मकः । अगस्त्वं सर्वगत्वाच्च तेनाग्निस्त्वं भविष्यसि ।। १८.
ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते । पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ।। १८.
याज्यान्येतानि नामानि तव पुत्र महामखे । यजन्तस्त्वां नराः कामैस्तर्पयिष्यन्त्यसंशयम् ।। १८.
महातपा उवाच । विष्णोर्विभूतिमाहात्म्यं कथितं ते प्रसङ्गतः । तिथीनां श्रृणु माहात्म्यं कथ्यमानं मया नृप ।। १९.
इत्थंभूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् । उवाच देवं ब्रह्माणं तिथिर्मे दीयतां विभो । यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ।। १९.
ब्रह्मोवाच । देवानामथ यक्षाणां गन्धर्वाणां च सत्तम । आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ।। १९.
त्वत्पदात् प्रतिपदं चान्या संभविष्यन्ति देवताः । अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ।। १९.
तस्यां तिथौ हविष्येण प्राजापत्येन मूर्तिना । होष्यन्ति तेषां प्रीताः स्युः पितरः सर्वदेवताः ।। १९.
चतुर्विधानि भूतानि मनुष्याः पशवोऽसुराः । देवाः सर्वे सगन्धर्वाः प्रीताः स्युस्तर्पिते त्वयि ।। १९.
यश्चोपवासं कुर्वीत त्वद्भक्तः प्रतिपद्दिने । क्षीराशनो वा वर्त्तेत श्रृणु तस्य फलं महत् ।। १९.
चतुर्युगानि षट्त्रिंशत् स्वर्लोकेऽसौ महीयते । तेजस्वी रूपसंपन्नो द्रव्यवान् जायते नरः ।। १९.
इह जन्मन्यसौ राजा प्रेत्य स्वर्गे महीयते । तूष्णीं बभूव सोप्यग्निर्ब्रह्मदत्ताश्रयं ययौ ।। १९.
य इदं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः । अग्नेर्जन्म स पापेभ्यो मुच्यते नात्र संशयः ।। १९.
प्रजापाल उवाच । एवमग्नेः समुत्पत्तिर्जाता ब्रह्मन् महात्मनः । प्राणापानौ कथं देवावश्विनौ संबभूवतुः ।। २०.
मरीचिर्ब्रह्मणः पुत्रः स्वयं ब्रह्मा द्विसप्तभिः । रूपैर्व्यवस्थितस्तेषां मरीचिः श्रेष्ठतामगात् ।। २०.
तस्य पुत्रो महातेजाः कश्यपो नाम वै मुनिः । स्वयं प्रजापतिः श्रीमान् देवतानां पिताऽभवत् ।। २०.
तस्य पुत्रा बभूवुर्हि आदित्या द्वादश प्रभो । अदित्यपत्यानि ते सर्वे आदित्यास्तेन कीर्तिताः ।। २०.
तेषां मध्ये महातेजा मार्त्तण्डो लोकविश्रुतः । नारायणात्मकं तेजो द्वादशं संप्रकीर्तितम् ।। २०.
ये ते मासास्त आदित्याः स्वयं संवत्सरो हरिः । एवं ते द्वादशादित्या मार्त्तण्डश्च प्रधानवान् ।। २०.
तस्य त्वष्टा ददौ कन्यां संज्ञां नाम महाप्रभाम् । तस्यापत्यद्वयं जज्ञे यमश्च यमुना तथा ।। २०.
तस्य तेजोऽप्यसहती बभूवाश्वी मनोजवा । स्वां छायां तत्र संस्थाप्य सा जगमोत्तरान् कुरून् ।। २०.
तद्रूपां तां सवर्णां तु भेजे मार्त्तण्डभास्करः । तस्या अपि द्वयं जज्ञे शनिं तपतिमेव च ।। २०.
यदा त्वसदृशं भेजे पुत्रान् प्रति नरोत्तम । संज्ञां प्रोवाच भगवान् क्रोधसंरक्तलोचनः । असमत्वं न कर्त्तव्यं स्वेष्वपत्येषु भामिनि ।। २०.
एवमुक्ता यदा सा तु असमत्वं व्यरोचत । तदा यमः स्वपितरं प्रोवाच भृशदुःखितः ।। २०.