शुश्रूषया च मुक्ता ये लिङ्गिनः पापकर्मिणः
देवागारांश्च सत्राणि तीर्थविक्रयिणस्तथा
मिथ्या च नखरोमाणि धारयन्ति च ये नराः
अज्ञानादव्रती यश्च यश्चाश्रमबहिष्कृतः
कलही च प्रतर्क्यश्च निष्ठुरश्च नराधमः
स्त्रियो नराश्च गच्छन्ति यत्र तच्छृणुतामलाः
तानि वै कथयिष्यामि श्रूयतां द्विजसत्तमाः एवं तस्य वचः श्रुत्वा सर्व एव तपोधनाः।।195.
पप्रच्छुर्विस्मयाविष्टा नाचिकेतमृषिं तदा त्वया सर्वं यथा दृष्टं ब्रूहि तत्र विदां वर
यथास्वरूपः कालोऽसौ येन सर्वं प्रवर्त्तते
वारयेत्स तदा तं तु ब्रह्मलोके च स प्रभुः
न नाशो हि शरीरस्य तस्मिन्देशे तपोधनाः
अवश्यं चैव गन्तव्यं तस्य पार्श्वं पुनःपुनः
न गच्छन्ति च ये तत्र दानेन निगमेन च
रौरवो वा कथं विप्र किंरूपं कूटशाल्मलेः
किं च किंच तु कुर्वाणाः किंच किंच समाचरन्
धृतिं न लभते किंचित्तैस्तैर्दोषैः सुवासिताः
बोद्धव्यं नावबुध्यन्ते गुणानां तु गुणोत्तरम् 195.
परं परमजानन्तो रमन्ते कस्य मायया
एतत्कथय वत्स त्वं यतः प्रत्यक्षदर्शिवान्
इति श्रीवराहपुराणे संसारचक्रे यमलोकस्थपापिवर्णनं नाम पञ्चनवत्यधिकशततमोऽध्यायः
अथ धर्मराजपुरवर्णनम् तेषां तद्वचनं श्रुत्वा ऋषीणां भावितात्मनाम्
नाचिकेत उवाच योजनानां सहस्रं तु विस्तराद्द्विगुणायतम्
द्विगुणं परिवेषेण तद्वै प्रेतपतेः पुरम्
हर्म्यप्रासादसंबाधमहाट्टालसमन्वितम्
कैलासशिखराकारैर्भवनैरुपशोभितम्
दीर्घिकाश्च तथा कान्ता नलिन्यश्च सरांसि च
नरनारीसमाकीर्णा गजवाजिसमाकुलाः
सर्वजीवैस्तथाकीर्णं तस्य राज्ञः पुरोत्तमम्
क्वचिद्गायन् हसंश्चैव क्वचिद्दुःखेन दुःखितः
क्वचिन्नृत्यन्क्वचित्तिष्ठन् क्वचिद्बन्धनसंस्थितः 196.