चिन्तयेत न चिन्ताऽत्र मृगयन्ति च यद्धितम् 194.
धर्मराजस्य किं रूपं कालो वा कीदृशो मुने
किंच कुर्वन्प्रमुच्येत किं वा कर्म समाचरेत्
क्रोधबन्धनजं क्लेशं कर्षणं छेदनं तथा
जितात्मानः कथं यान्ति कथं गच्छति पापकृत्
प् रणयात्सौहृदात्स्नेहादस्माभिरभिपृच्छितम्
वैशम्पायन उवाच यदुवाच महाराज शृणु तज्जनमेजय
इति श्रीवराहपुराणे संसारचक्रे नचिकेतागमनं नाम चतुर्नवत्यधिकशततमोऽध्यायः
अथ यमलोकस्थपापिवर्णनम् कथ्यमानं मया विप्राः शृण्वन्तु तपसि स्थिताः
संसारं तु यथाशक्ति कथ्यमानं निबोधत
तथा ब्रह्महणः पापा ये च विश्वासघातकाः
कन्यानां दूषका ये च ये च पापरता नराः
शूद्राणां याजकाश्चैव हाहाभूता द्विजातयः
सुरापो ब्रह्महा चैव यो द्विजो वीरघातकः
मातृत्यागी पितृत्यागी यः स्वसाध्वीं परित्यजेत्
गृहक्षेत्रहरा ये च सेतुबन्धविनाशकाः
अशौचा निर्दयाः पापा हिंसका व्रतभञ्जकाः
भूम्यामनृतवादी च वेदजीवी च यो द्विजः 195.१
सर्वपापसुसङ्गाश्च चिन्तका येऽतिवैरिणः
परवित्तापहारी च राजघाती च यो नरः
शुश्रूषया च मुक्ता ये लिङ्गिनः पापकर्मिणः
देवागारांश्च सत्राणि तीर्थविक्रयिणस्तथा
मिथ्या च नखरोमाणि धारयन्ति च ये नराः
अज्ञानादव्रती यश्च यश्चाश्रमबहिष्कृतः
कलही च प्रतर्क्यश्च निष्ठुरश्च नराधमः
स्त्रियो नराश्च गच्छन्ति यत्र तच्छृणुतामलाः
तानि वै कथयिष्यामि श्रूयतां द्विजसत्तमाः एवं तस्य वचः श्रुत्वा सर्व एव तपोधनाः।।195.
पप्रच्छुर्विस्मयाविष्टा नाचिकेतमृषिं तदा त्वया सर्वं यथा दृष्टं ब्रूहि तत्र विदां वर
यथास्वरूपः कालोऽसौ येन सर्वं प्रवर्त्तते
वारयेत्स तदा तं तु ब्रह्मलोके च स प्रभुः