इति श्रीवराहपुराणे प्रागितिहासे संसारचक्रे नचिकेतप्रयाणं नाम त्रिनवत्यधिकशततमोऽध्यायः
अथ नचिकेतसो आगमनवर्णनम् गतश्च परमं स्थानं यत्र राजा दुरासदः
ततो हृष्टमना राजन्पुत्रं दृष्ट्वा तपोनिधिः
दिवं च पृथिवीं चैव नादयामास हृष्टवत्
पश्यन्तु मम पुत्रस्य प्रभावं दिव्यतेजसः
पितृस्नेहानुभावेन गुरुशुश्रूषयापि च
लोके मत्सदृशो नास्ति पुमान्भाग्यसमन्वितः
कच्चित्त्वं न हतो वत्स नैव बद्धो यमालये
कच्चित्ते व्याधयो घोरा नान्वगच्छन्यमालये
कच्चिद्राजा त्वया दृष्टः प्रेतानामधिपो बली
कच्चिन्न तुष्टो भगवांस्त्वां दृष्ट्वा स्वयमागतम् 194.
कच्चिद्दौवारिकास्तत्र न रौद्रास्त्वां यमालये
कच्चित्पन्थास्त्वया लब्धो निर्गमो वा यमालये
ऋषयश्च महाभागा द्विजाश्च सुमहाव्रताः
एवमाभाषमाणं तु श्रुत्वा सर्वे वनौकसः
जपन्तश्चैव जाप्यानि पूजयन्तश्च देवताः
एकपादेन तिष्ठन्तः पश्यन्तोऽन्ये दिवाकरम्
वैश्वानरा महाभागास्तपसा संशितव्रताः
दिग्वाससश्च ऋषयो दन्तोलूखलिनस्तथा
धूमदाश्च तथा चान्ये तप्यमानाश्च पावके
उपविष्टास्तथा चान्ये स्थिताश्चान्ये सुयन्त्रिताः 194.
तं नाचिकेतसं दृष्ट्वा यमलोकादिहागतम्
केचिद्विमनसश्चैव केचित्संशयवादिनः
ऋषय ऊचुः नाचिकेतः सुत प्राज्ञ स्वधर्मपरिपालक
ब्रूहि सत्यं त्वया दृष्टं श्रुतं च सविशेषकम्
अपि गुह्यं च वक्तव्यं पृष्टे सति विशेषतः
मृतं नैव परं तात दृश्यते कालमायया
इह चैव कृतं यत्तु तत्परत्रोपभुज्यते
तथाऽत्र दृश्यते काले कालस्यैव तु मायया
तस्य पारं न गच्छन्ति बहवः पारचिन्तकाः