अहं पुत्र न सद्वादी न क्षमे धर्मदूषितम्
धर्मज्ञश्च यशस्वी च नित्यं क्षान्तो जितेन्द्रियः
याचितस्त्वं मया पुत्र गन्तुं वै तत्र नार्हसि
यदि वैवस्वतो राजा तत्र प्राप्तं यदृच्छया
विनश्येयमहं पश्य कुलसेतुविनाशनः
नरकस्य पुदित्याख्या दुःखेन नरकं विदुः
अपुत्रस्य हि तत्सर्वं मोघं भवति निश्चयः
शुश्रूषावान्भवेच्छूद्रो वैश्यो वा कृषिजीवनः
तपो वा विपुलं तप्त्वा दत्त्वा दानमनुत्तमम् 193.
पुत्रेण लभते जन्म पौत्रेण तु पितामहः
न हास्यामीति वत्स त्वां मम वंशविवर्द्धनम्
वैशम्पायन उवाच हृष्टपुष्ट वपुर्भूत्वा पुत्रः परमधार्मिकः
पुत्र उवाच दृष्ट्वा च तमहं देवं सर्वलोकनमस्कृतम्
आगच्छामि पुनश्चात्र न भयं मेऽस्ति मृत्युतः
सत्ये तिष्ठ महाभाग सत्यं च परिपालय
सूर्यस्तपति सत्येन वातः सत्येन वाति च
उदधिर्ल्लङ्घयेन्नैव मर्यादां सत्यपालितः
सत्येन यज्ञा वर्त्तन्ते मन्त्रपूताः सुपूजिताः
सत्यं गाति तथा साम सर्वं सत्ये प्रतिष्ठितम् 193.
सत्येन सर्वं लभते यथा तात मया श्रुतम्
देवदेवेन रुद्रेण वेदगर्भः पुरा किल
दीक्षां धारयते ब्रह्मा स तेनैव सुयन्त्रितः
संवर्तेन पुरा तात सर्वे लोकाः सदैवताः
पाताले पालयन् सत्यं बद्धो वैरोचनो वसन्
स्थितः सत्ये महाविन्ध्यो वर्द्धमानो न वर्द्धते
गृहधर्माश्च ये दृष्टा वानप्रस्थाश्च शोभिताः
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
सत्येन पाल्यते धर्मो धर्मो रक्षति रक्षितः
एवमुक्त्वा हृष्टपुष्टः स्वेन देहेन सुव्रत 193.
ऋषिपुत्रो महातेजा सत्यवागनसूयकः