एवं हि मधुपर्क्कश्च देयः सिद्धिमभीप्सुभिः
ददाति मधुपर्कं यः स याति परमां गतिम्
दीक्षिताय च दातव्यो यश्च शिष्यो गुरुप्रियः
शृणोति मधुपर्क्कस्य चाख्यानं पापनाशनम्
एतत्ते कथितं भद्रे मधुपर्क्कविभावनम्
राजद्वारे श्मशाने वा भये च व्यसने तथा
अपुत्रो लभते पुत्रमभार्यश्च प्रियां लभेत्
एतत्ते कथितं भूमे महाशान्तिं सुखावहाम्
यस्त्वनेन विधानेन कुर्याच्छान्तिमनुत्तमाम् 192.
इति श्रीवराहपुराणे भगवच्छास्त्रे सर्वशान्तिकरणं नाम द्विनवत्यधिकशततमोऽध्यायः
अथ नचिकेतः प्रयाणवर्णनम् व्यासशिष्यं महाप्राज्ञं वेदवेदाङ्गपारगम्
अश्वमेधे तथा वृत्ते राजा वै जनमेजयः
प्रायश्चित्तं चरित्वैवमागतो गजसाह्वयम्
ऋषिं परमसम्पन्नं वैशम्पायनमञ्जसा
कुरूणां पश्चिमो राजा पश्चात्तापेन पीडितः
जनमेजय उवाच कर्मपाकफलं यस्मिन्मानुषैरुप भुज्यते
एतदिच्छाम्यहं श्रोतुं कीदृशं तु यमालयम्
न गच्छेयं कथं विप्र प्रेतराज्ञो निवेशनम्
सूत उवाच उवाच मधुरं वाक्यं राजानं जनमेजयम्
वैशम्पायन उवाच ।। शृणु राजन्पुरावृत्तां कथां परमशोभनाम् । धर्मवृद्धिकरीं नित्यां यशस्यां कीर्तिवर्द्धिनीम् ।। 193.
पावनीं सर्वपापानां प्रवृत्तौ शुभकारिणीम्
कश्चिदासीत्पुरा राजनृषिः परमधार्मिकः
तस्य पुत्रो महातेजा योगमास्थाय बुद्धिमान्
तेन रुष्टेन शप्तोऽभूत्पुत्रः परमधार्मिकः
तथेत्युक्त्वा महातेजाः पुत्रः परमधार्मिकः
क्षणेनान्तर्हितो जातः पितरं प्रत्युवाच ह
मा भूद्वाक्यं च ते मिथ्या धार्मिकस्य कदाचन
इह चैव पुनस्तावदागमिष्ये न संशयः
मिथ्याभिशंसिनं तात यथेष्टं तारयिष्यति 193.
अप्रवृत्तस्त्वसम्भाष्यो योऽहं मिथ्या प्रयुक्तवान्