विस्मयं परमं गत्वा सा मही संशितव्रता
देव वृत्तोपचारेण तव यन्मनसि प्रियम्
एतदाचक्ष्व तत्त्वेन तत्र यत्परमं महत् साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि
कथयिष्यामि तत्सर्वं दुःखसंसारमोक्षणम्
पश्चाच्छान्तिं च मे कुर्याद्भूमे राष्ट्रसुखावहम्
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत्
शरणं त्वां गतो नाथ संसारार्णवतारक
दिशः पश्य अधः पश्य व्याधिभ्यो रक्ष नित्यशः
गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा 192.
अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं तथा
देवानां ब्राह्मणानां च भक्तानां कन्यकासु च
एवं शान्तिं पठित्वा तु मम कर्मपरायणः
मन्त्रः- योऽसौ भवान्सर्वजगत्प्रसूतो यज्ञेषु देवेषु च कर्मसाक्षी
एषा सिद्धिश्च कीर्तिश्च ओजसा तु महौजसम्
एवं पठति तत्त्वेन मम शान्तिं सुखावहाम्
एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत्
मन्त्रः- योऽसौ भवान्देववरप्रसूतो यो वै समर्च्यो मधुपर्क्कनामा
सर्पिर्दधिमधून्येव समं पात्रे ह्युदुम्बरे
घृतालाभे तु सुश्रोणि लाजैः सह विमिश्रयेत् 192.
दधि क्षौद्रं घृतं चैव कारयेत समं तथा
सर्वेषामप्यलाभे तु मम कर्मपरायणाः
मन्त्रः— योऽसौ भवान्नाभिमात्रप्रसूतो यज्ञैश्च मन्त्रैः सरहस्यजप्यैः
यो ददाति महाभागे मयोक्तं विधिपूर्वकम्
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे
तस्य चैवेह दातव्यं मन्त्रेण विधिपूर्वकम्
मद्भक्तेन तु दातव्यं सर्वसंसारमोक्षणम्
मधुपर्क्कं परं गृह्य चेमं मन्त्रमुदाहरेत्
मन्त्रः- योऽसौ भवांस्तिष्ठति सर्वदेहे नारायणः सर्वजगत्प्रधानः
अनेनैव तु मन्त्रेण दद्याच्च मधुपर्क्ककम् 192.
एषा गतिर्महाभागे मधुपर्क्कस्य कीर्त्तिता