ज्ञानोत्तमेषु विप्रेषु दद्याच्छ्राद्धं विधानतः
मन्त्रहीनं क्रियाहीनं यः श्राद्धं कुरुते द्विजः
उद्धरेद्यदि पात्रं तु ब्राह्मणो ज्ञानवर्जितः
एतत्ते कथितं भद्रे पितृकार्यमनुत्तमम्
अपरं चापि वसुधे किमन्यच्छ्रोतुमिच्छसि
इति श्रीवराहपुराणे श्राद्धपितृयज्ञनिश्चयो नाम नवत्यधिकशततमोऽध्यायः
अथ मधुपर्कोत्पत्तिदानसंकरणप्रकरणम् एवं श्रुत्वा बहून्धर्मान् धर्मशास्त्रविनिश्चयात्
धरण्युवाच श्रुतं सुबहुशश्चैव तृप्तिर्मम न विद्यते
ममैवानुग्रहार्थाय रहस्यं वक्तुमर्हसि
कानि द्रव्याणि कस्मै च देयानीति वदस्व मे
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम्
श्रीवराह उवाच उत्पत्तिश्चैव दानं च सर्वो यस्य च हीयते
अहं ब्रह्मा च रुद्रश्च कृत्वा लोकस्य संक्षयम्
ततो भूमे दक्षिणाङ्गात्पुरुषो मे विनिःसृतः
तत्र पप्रच्छ मां ब्रह्मा मम गात्राद्विनिःसृतः
सरहश्च लघुर्देव एतत्तव न युज्यते 191.
एवं च मे समुत्पन्नः सर्वकर्मसु निष्ठितः
मयात्र संशितं ब्रह्मन् रुद्रे चापि समासतः
उद्भवं मधुपर्क्कस्य आत्मसम्भवनिश्चयम्
मधुपर्केण किं कार्यमेतदाचक्ष्व निष्कलम्
कारणं मधुपर्कस्य दानं सङ्करणं तथा
ब्रह्मन् यात्युत्तरं स्थानं यत्र गत्वा न शोचति
यस्य दानविधिं प्राप्य यान्ति दिव्यां गतिं मम
संगृह्य मधुपर्कं वै इमं मन्त्रमुदाहरेत्
मन्त्रः--- ॐ एष हि देव भगवंस्तव गात्रसूतिः संसारमोक्षणकरो मधुपर्कनामा
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे 191.
मध्वेवं दधि सर्पिश्च कुर्याच्चैव समं तथा
सामासाद्य ततः कृत्वा मम कर्मपरायणः
इति श्रीवराहपुराणे मधुपर्क्कोत्पत्तिदानसंकरणं नामैकनवत्यधिकशततमोऽध्यायः
अथ सर्वशान्तिवर्णनम् श्रुत्वा तु मधुपर्क्कस्य ह्युत्पत्तिं दानमेव च