स्नानोपलेपनं भूमे कृत्वा विप्रान्प्रमन्त्रयेत्
यत्नेन मिथुनं श्राद्धे भोजयित्वा विसर्ज्जयेत्
अमायां तु च यो मूर्खो दन्तकाष्ठं हि खादति
प्रभातायां तु शर्वर्यामुदिते च दिवाकरे
श्मश्रुकर्म च कर्त्तव्यं नखानां छेदनानि च
पक्वान्नं तत्र वै कार्यं सुविमृष्टं च शुद्धितः
स्वागतं च तथा कृत्वा पाद्यार्थं सलिलं शुचि १९०.
आसनं कल्पयित्वा तु आवाह्य तदनन्तरम्
धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा
भस्मना मण्डलं कार्यं पङ्क्ति दोषनिवारकम्
तत्र कार्यो न संकल्पः पितॄनुद्दिश्य सुन्दरि
रक्षोघ्नमन्त्रपाठांश्च श्रावयीत विचक्षणः
उत्तरीयासनं दत्त्वा पिण्डप्रश्नं तु कारयेत्
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा
ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान्
पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च १९०.
वैष्णवी काश्यपी चेति अक्षया चेति नामतः
तृतीयमुदके दद्याच्छ्राद्धे एवं विधिः स्मृतः
एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः
ज्ञानोत्तमेषु विप्रेषु दद्याच्छ्राद्धं विधानतः
मन्त्रहीनं क्रियाहीनं यः श्राद्धं कुरुते द्विजः
उद्धरेद्यदि पात्रं तु ब्राह्मणो ज्ञानवर्जितः
एतत्ते कथितं भद्रे पितृकार्यमनुत्तमम्
अपरं चापि वसुधे किमन्यच्छ्रोतुमिच्छसि
इति श्रीवराहपुराणे श्राद्धपितृयज्ञनिश्चयो नाम नवत्यधिकशततमोऽध्यायः
अथ मधुपर्कोत्पत्तिदानसंकरणप्रकरणम् एवं श्रुत्वा बहून्धर्मान् धर्मशास्त्रविनिश्चयात्
धरण्युवाच श्रुतं सुबहुशश्चैव तृप्तिर्मम न विद्यते
ममैवानुग्रहार्थाय रहस्यं वक्तुमर्हसि
कानि द्रव्याणि कस्मै च देयानीति वदस्व मे