एतान्न पश्येच्छ्राद्धेषु पितृपिण्डेषु माधवि
पितरस्तस्य षण्मासं दुःखमृच्छन्ति दारुणम्
धृतं तु जुहुयादग्नावादित्यं चावलोकयेत्
गंधपुष्पं च धूपं च दद्यादर्घ्यं तिलोदकम्
पुनश्चान्यत्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि
मृतान्नं ये न भुञ्जंति कदाचिदपि माधवि
प्रेतान्नं भुञ्जमानास्तु श्राद्धमर्हन्ति ये द्विजाः १९०.
दम्भकार कृतोच्छिष्टं कृत्वा तु नरकं व्रजेत्
माघमासे तु द्वादश्यां सर्पिर्युक्तं तु पायसम्
सवत्सां कपिलां दद्यादात्मनः शुद्धिकामुकः
स्नानोपलेपनं भूमे कृत्वा विप्रान्प्रमन्त्रयेत्
यत्नेन मिथुनं श्राद्धे भोजयित्वा विसर्ज्जयेत्
अमायां तु च यो मूर्खो दन्तकाष्ठं हि खादति
प्रभातायां तु शर्वर्यामुदिते च दिवाकरे
श्मश्रुकर्म च कर्त्तव्यं नखानां छेदनानि च
पक्वान्नं तत्र वै कार्यं सुविमृष्टं च शुद्धितः
स्वागतं च तथा कृत्वा पाद्यार्थं सलिलं शुचि १९०.
आसनं कल्पयित्वा तु आवाह्य तदनन्तरम्
धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा
भस्मना मण्डलं कार्यं पङ्क्ति दोषनिवारकम्
तत्र कार्यो न संकल्पः पितॄनुद्दिश्य सुन्दरि
रक्षोघ्नमन्त्रपाठांश्च श्रावयीत विचक्षणः
उत्तरीयासनं दत्त्वा पिण्डप्रश्नं तु कारयेत्
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा
ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान्
पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च १९०.
वैष्णवी काश्यपी चेति अक्षया चेति नामतः
तृतीयमुदके दद्याच्छ्राद्धे एवं विधिः स्मृतः
एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः