आगताः शरणं चात्र सोमेन सहिता मम
ब्रह्मणा चैवमुक्तस्तु ईश्वरः परमेश्वरः
पश्यते ईश्वरं तत्र योगवेदाङ्गनिर्मितम्
निर्मिता विष्णुना ब्रह्मन् वैष्णव्या मायया च ते
पिता तु ब्रह्मदैवत्यो मम गात्राद्विनिर्मितः
प्रपितामहो रुद्रदेवो मम गात्राद्विनिर्मितः
ब्राह्मणानां हितार्थाय निर्मिता विष्णुमायया १९०.
आगताः शरणं ब्रह्मन्सोमेन सहिता यदि
शृणु तत्ते प्रवक्ष्यामि ब्रह्मन्लोकपितामह
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा
ईश्वरेणेवमुक्तस्तु ब्रह्मा कमलसंभवः
प्रदीप्तस्तेजसा वह्निः सर्वभक्षो हुताशनः
ब्रह्माग्निं भाषते तत्र शृणुष्व च हुताशन
त्वया भुक्तेति भोक्ष्यन्ति देवताः समरुद्गणाः
पश्चाद्दत्तं तु तं पिण्डं सह सोमेन भुञ्जते
प्रस्थिताः सह सोमेन देवतास्ता वसुन्धरे
एवं तु प्रथमं श्राद्धं दद्यादग्नेर्वसुन्धरे १९०.
पश्चात्पिण्डान्प्रदद्याच्च दर्भानास्तीर्य भूतले
पितामहाय रुद्रांशसंभूताय तु मध्यमम्
विधिना मन्त्रपूर्वेण श्राद्धं कुर्वन्ति ये नराः
मम मायाबलेनैव कृतं श्राद्धं द्विजातिभिः
नपुंसकाश्चित्रकारा वसुपालविनिन्दकाः
नर्त्तका गायनाश्चैव तथा रङ्गोपजीविनः
राजोपसेवकाश्चैव वाणिज्यक्रयविक्रयाः
असंस्कारप्रवृत्ताश्च शूद्रकर्मोपजीविनः
दीक्षितः क्रोडपृष्ठश्च यश्च वार्धुषिको द्विजः
तस्करा लेखकाराश्च याजका रङ्गकारकाः १९०.
सर्वकर्मकरा ये च सर्वविक्रयिणस्तथा
दूराध्वानं गता ये च तत्र कर्मोपजीविनः
श्राद्धकालमनुप्राप्तं राजसं तं विदुर्बुधाः