दृष्टाः सोमेन सुश्रोणि देवताजीर्णपीडिताः
सोम उवाच एवं तु भाषमाणस्य सोमस्य तदनन्तरम्
ऊचुस्ते सोममेवापि वाक्यं नः श्रूयतामिति
श्राद्धे नियोजितास्तैस्तु पितृपिण्डेन तर्पिताः
सोम उवाच सहितास्तत्र गच्छामो यथा श्रेयो भविष्यति
एवमुक्तास्तु सोमेन पितृदेवास्तदन्तरे
दृष्ट्वा पितामहं देवं प्रणम्य सहसा क्षितौ १९०.
य एते पितरो देव दुःखिताजीर्णपीडिताः
यथा नश्यंति जीर्णानि तथा कुरु पितामह
उवाच वचनं तत्र ब्रह्मा योगीश्वरं प्रति
आगताः शरणं चात्र सोमेन सहिता मम
ब्रह्मणा चैवमुक्तस्तु ईश्वरः परमेश्वरः
पश्यते ईश्वरं तत्र योगवेदाङ्गनिर्मितम्
निर्मिता विष्णुना ब्रह्मन् वैष्णव्या मायया च ते
पिता तु ब्रह्मदैवत्यो मम गात्राद्विनिर्मितः
प्रपितामहो रुद्रदेवो मम गात्राद्विनिर्मितः
ब्राह्मणानां हितार्थाय निर्मिता विष्णुमायया १९०.
आगताः शरणं ब्रह्मन्सोमेन सहिता यदि
शृणु तत्ते प्रवक्ष्यामि ब्रह्मन्लोकपितामह
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा
ईश्वरेणेवमुक्तस्तु ब्रह्मा कमलसंभवः
प्रदीप्तस्तेजसा वह्निः सर्वभक्षो हुताशनः
ब्रह्माग्निं भाषते तत्र शृणुष्व च हुताशन
त्वया भुक्तेति भोक्ष्यन्ति देवताः समरुद्गणाः
पश्चाद्दत्तं तु तं पिण्डं सह सोमेन भुञ्जते
प्रस्थिताः सह सोमेन देवतास्ता वसुन्धरे
एवं तु प्रथमं श्राद्धं दद्यादग्नेर्वसुन्धरे १९०.
पश्चात्पिण्डान्प्रदद्याच्च दर्भानास्तीर्य भूतले
पितामहाय रुद्रांशसंभूताय तु मध्यमम्
विधिना मन्त्रपूर्वेण श्राद्धं कुर्वन्ति ये नराः