देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः
पितृयज्ञं विशालाक्षि ये कुर्वन्ति विदो जनाः
ददन्ते पितरस्तस्य आरोग्यं नात्र संशयः
तिर्यग्भ्यश्च विमुच्यन्ते प्रेतभावेन मानवाः
पूजकः पितृदेवानां सर्वकालं गृहाश्रमे
अक्षय्यं तस्य मन्यन्ते पितरः श्राद्धतर्पिताः
सात्विकं शुक्लपन्थानमेते यान्ति विदो जनाः
अज्ञानतमसारूढा निकृतिज्ञाः शठास्तथा १९०.
कल्पान्तं पच्यमानापि त्रायन्ते येन मानवाः
मुंचन्ति जलबिन्दूंश्च अमां प्राप्य जलाशये
ये वै श्राद्धं प्रकुर्वन्ति तर्पयित्वा द्विजातयः
निरयात्तेऽपि मुच्यन्ते तृप्तिर्भवति चाक्षया
विप्राणां वचनं कृत्वा यथाशक्त्या च दक्षिणा
देयो नीलो वृषस्तत्र नरकार्त्तिविनाशनः
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः
उद्धृतो यदि सुश्रोणि पंकः शृङ्गेण तेन च
तानुद्धृत्य वरारोहे सोमलोकं स गच्छति
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च १९०.
एष धर्मो गृहस्थानां पुत्र पौत्रसमन्विताः
पिपीलिकादिभूतानि जङ्गमाश्च विहङ्गमाः
एवं गृहाश्रमो मूलं धर्मस्तत्र प्रतिष्ठितः
तिथौ पर्वणि ये चैव स्वपितॄंस्तारयन्ति वै
न यज्ञदानाध्ययनोपवासैस्तीर्थाभिषेकैरपि चाग्निहोत्रैः
पितरो निर्गतास्तत्र ब्रह्मविष्णुशरीरगाः
एवं क्रमेण वै तत्र पितृदेवा वसुन्धरे
तत एते न जानन्ति देवाः शक्रपुरोगमाः
न च ब्रह्मा विजानाति निःसृतो मम मायया
पुनश्चान्यत्प्रवक्ष्यामि पितृयज्ञेषु सुन्दरि १९०.
कृत्वा वै पिण्डसङ्कल्पं दर्भानास्तीर्य भूतले
अजीर्णेनाभिपीड्यन्ते भुज्यन्ते न च सुन्दरि