कृतकृत्यस्य मे किं नु भवद्भिर्विप्रयोजनम् । तथापि दद्मि वो रूपे द्वे द्वे प्रत्येकशोऽधुना ।। १७.
भूतकार्येष्वमूर्तेन देवलोके तु मूर्तिना । तिष्ठध्वमपि कालान्ते लयं त्वाविशत द्रुतम् ।। १७.
शरीराणि पुनर्नैवं कर्त्तव्योऽहमिति क्वचित् । मूर्त्तीनां च तथा तुभ्यं दद्मि नामानि वोऽधुना ।। १७.
अग्नेर्वैश्वानरो नाम प्राणापानौ तथाश्विनौ । भविष्यति तथा गौरी हिमशैलसुता तथा ।। १७.
पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति । शरीरधातवश्चेमे नानाभूतानि एव तु । अहंकारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ।। १७.
भानुश्चादित्यरूपोऽसौ मूर्त्तामूर्त्त च चक्षुषी । कामाद्योऽयं गणो भूयो मातृरूपो भविष्यति ।। १७.
शरीरमाया दुर्गैषा कारणान्ते भविष्यति । दश कन्या भविष्यन्ति काष्ठास्त्वेतास्तु वारुणाः ।। १७.
अयं वायुर्धनेशस्तु कारणान्ते भविष्यति । अयं मनो विष्णुनामा भविष्यति न संशयः ।। १७.
धर्मोऽपि यमनामा च भविष्यति न संशयः । महत्तत्त्वं च भगवान् महादेवो भविष्यति ।। १७.
इन्द्रियार्थाश्च पितरो भविष्यन्ति न संशयः । अयं सोमः स्वयं भूत्वा यामित्रं सर्वदामराः ।। १७.
एवं वेदान्तपुरुषः प्रोक्तो नारायणात्मकः । स्वस्थाने देवताः सर्वा देवस्तु विरराम ह ।। १७.
एवं प्रभावो देवोऽसौ वेदवेद्यो जनार्दनः । कथितो नृपते तुभ्यं किमन्यच्छ्रोतुमिच्छसि ।। १७.
thumb|पञ्चमहाभूताः प्रजापाल उवाच । कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने । गौर्या गणपतेर्वाऽपि नागानां वा गुहस्य च ।। १८.
आदित्यचन्द्रमातॄणां दुर्गाया वा दिशां तथा । धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ।। १८.
शम्भोर्वापि पितॄणां च तथा चन्द्रमसो मुने । शरीरदेवता ह्येताः कथं मूर्त्तित्वमागताः ।। १८.
किं च तासां मुने भोज्यं का वा संज्ञा तिथिश्च का । यस्यां यष्टास्त्वमी पुंसां फलं यच्छन्त्यनामयम् । एतन्मे सरहस्यं तु मुने त्वं वक्तुमर्हसि ।। १८.
महातपा उवाच । योगसाध्यः स्वरूपेण आत्मा नारायणात्मकः । सर्वज्ञः क्रीडतस्तस्य भोगेच्छा चात्मनात्मनि । क्षोभितेऽभून्महाभूते एतच्छब्दं तदद्भुतम् ।। १८.
तमप्यप्रीतिमत्तोयं विकारं समरोचयत् । विकुर्वतस्तस्य तदा महानग्निः समुत्थितः । कोटिज्वालापरीवारः शब्दवान् दहनात्मकः ।। १८.
असावप्यतितेजस्वी विकारं समरोचयत् । विकुर्वतो बभौ वह्नेर्वायुः परमदारुणः । तस्मादपि विकारस्थादाकाशं समपद्यत ।। १८.
तच्छब्दलक्षणं व्योम स च वायुः प्रतापवान् । तच्च तेजोऽम्भसा युक्तं श्लिष्टमन्योन्यतस्तदा ।। १८.
तेजसा शोषितं तोयं वायुना उग्रगामिना । बाधितेन तथा व्योम्ना मार्गे दत्ते तु तत्क्षणात् ।। १८.
पिण्डीभूतं तथा सर्वं काठिन्यं समपद्यत । सेयं पृथ्वी महाभाग तेषां वृद्धतराऽभवत् ।। १८.
चतुर्णां योगकाठिन्यादेकैकगुणवृद्धितः । पृथ्वी पञ्चगुणा ज्ञेया तेऽप्येतस्यां व्यवस्थिताः ।। १८.
स च काठिन्यकं कुर्वन् ब्रह्माण्डं समपद्यत । तस्मिन् नारायणो देवश्चतुर्मूर्तिश्चतुर्भुजः ।। १८.
प्राजापत्येन रूपेण सिसृक्षुर्विविधाः प्रजाः । चिन्तयन् नाधिगच्छेत सृष्टिं लोकपितामहः ।। १८.
ततोऽस्य सुमहान् कोपो जज्ञे परमदारुणः । तस्मात् कोपात् सहस्त्रार्चिरुत्तस्थौ दहनात्मकः ।। १८.
स तं दिधक्षुर्ब्रह्माणं ब्रह्मणोक्तस्तदा नृप । हव्यं कव्यं वहस्वेति ततोऽसौ हव्यवाहनः ।। १८.
ब्रह्माणं क्षुधितः प्रायात् किं करोमि प्रसाधि माम् । स ब्रह्मा प्रत्युवाचाथ त्रिधा तृप्तिमवाप्स्यसि ।। १८.
दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् । नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ।। १८.
आ समन्ताद्धुतं किंचिद् यत् त्रिलोके विभावसो । तद् वहस्व सुरार्थाय ततस्त्वं हव्यवाहनः ।। १८.