क एते पितरो देव श्राद्धं भोक्ष्यन्ति योगतः
कथं तं पिण्डसङ्कल्पं मासे मासे नियोजयेत्
निश्चयं श्रोतुमिच्छामि परं कौतूहलं हि मे
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् साधु भूमे वरारोहे सर्वधर्मव्यवस्थिते
कथयिष्यामि ते देवि यन्मां त्वं परिपृच्छसि
पिता पितामहश्चैव तथैव प्रपितामहः
ज्ञात्वा नक्षत्रसंयोगं पितृपक्षे ह्युपागते
करिष्यन्ति च ये श्राद्धं श्रद्धया ज्ञानिनो जनाः १९०.
केचिद्यजन्ति यज्ञं वै ब्रह्मयज्ञं द्विजातयः
केचिच्च भूतयज्ञेन वर्त्तयन्ति सुमध्यमे
पितृयज्ञं च भो देवि शृणु वक्ष्यामि निश्चयम्
सर्वे ते मयि वर्त्तन्ते सत्यमेतद्ब्रवीमि ते
उत्तरोऽग्निरहं चैव दक्षिणाग्निरहं तथा
पावनः पावकश्चैव अहमेव व्यवस्थितः
वैश्वदेवे नियुञ्जीत ब्रह्मचारी शुचिः सदा
एतान्न भोजयेच्छ्राद्धे देवतीर्थेषु पूजयेत्
उत्तमो गृहसन्तुष्टः क्षान्तो दान्तो जितेन्द्रियः
वेदविद्याव्रतस्नातो सुविमृष्टान्नभोजकः १९०.
दत्त्वा हुताशनायादौ देवतीर्थेषु सुन्दरि
चतुर्णामेव वर्णानां यद्यथा श्राद्धमर्हति
यन्न पश्यन्ति ते भोज्यं श्वानः कुक्कुटसूकराः
सर्वकर्मकरा ये च सर्वभक्षाश्च ये नराः
एते पश्यन्ति यच्छ्राद्धं तच्छ्राद्धं राक्षसं विदुः
हृतं यदा तु त्रैलोक्यं शक्रस्यार्थे त्रिविक्रमे
वर्जनीया बुधैरेते पितृयज्ञेषु सुन्दरि
पितॄंस्तत्राह्वयेद्भूमे मन्त्रेण विधिपूर्वकम्
पिता पितामहश्चैव तथैव प्रपितामहः
प्रणम्य शिरसा देवीर्निर्वापस्य च धारिणीः १९०.
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः
त्रयस्तत्र वरारोहे देवगात्राद्विनिस्सृताः