तेनैव श्राद्धदोषेण राज्ञस्तु पितरस्तदा
क्षुत्पिपासार्दिता नित्यं क्रन्दन्ते च पुनः पुनः
मृगयार्थं गतस्तत्र द्वित्रैः परिजनैर्वृतः
के भवन्तोऽत्र संप्राप्ता दशामेतां सुदुःखिताः
पितर ऊचुः वयं तस्यैव पितरो नरकं गन्तुमुद्यताः
तेषां तु वचनं श्रुत्वा राजा दुःखसमन्वितः
मेधातिथिरुवाच केन वै कर्मदोषेण निरयं गन्तुमुद्यताः
पितर ऊचुः तेनैव कर्मदोषेण नरकं गन्तुमुद्यताः ।। 189.
तत्र दुःखं महद्भुक्त्वा पुनर्गच्छामहे दिवम्
असंख्यातास्त्वया दत्ता गावः सुबहुदक्षिणा
तत्र चान्नं न विद्येत येन तृप्तिर्भविष्यति
तेषां तु वचनं श्रुत्वा मेधातिथिरगाद्गृहम्
मेधातिथिरुवाच आहूयन्तां द्विजाः सर्वे कुण्डगोलकवर्जिताः
इत्युक्तमात्रे वचने चन्द्रशर्मा पुरोहितः
साधून्क्षांतान्कुलीनांश्च सुशीलान्मानवर्जितान्
कृते श्राद्धे ततः पश्चात्पिण्डान्निर्वाप्य यत्नतः
हृष्टान्पुष्टान्बलैर्युक्तान्राजा तु मुमुदे भृशम् 189.
ऊचुर्विनयसम्पन्नाः प्रीतिपूर्वमिदं वचः
इदानीं च त्वया कार्यमस्मद्धितमनुऽत्तमम्
तयोर्दत्तं तु यच्छ्राद्धं निष्फलं तत्स्मृतं बुधैः
सङ्कल्पयित्वा चान्नं तु गोभ्यो देयं यथाविधि
अपात्राय न दातव्यं नास्तिकाय गुरुद्रुहे
इत्युक्त्वा पितरः सर्वे गताः स्वर्गाय भामिनि
यदुक्तं पितृभिः सर्वं तच्चकार मुदायुतः
सन्तारयति दुर्गेभ्यो विषमेभ्यो न संशयः
तस्माद्दानं प्रदातव्यं ब्राह्मणाय वसुन्धरे
सर्वे श्राद्धं करिष्यन्ति निमिप्रभृतयो धरे 189.
इति श्रीवराहपुराणे भगवच्छास्त्रे पिण्डकल्पोत्पत्तिर्नामेकोननवत्यधिकशततमोऽध्यायः
अथ श्राद्धपितृयज्ञनिश्चयप्रकरणम् देवमानुषतिर्यक्षु प्रेतेषु नरकेषु च
स्वप्नोपममिमं लोकं ह्यात्मकर्म शुभाशुभम्