प्रतिगृह्णन्ति ये तत्र प्रेतभागं विशेषतः
भुक्त्वा तेषां द्विजो देव मुच्यते केन कर्मणा
प्रणयात्स्त्रीस्वभावेन पृच्छामि त्वां जनार्दन
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् साधु भूमे वरारोहे यन्मां त्वं परिपृच्छसि
कथयिष्यामि ते देवि तारयन्ति यथा द्विजाः
विशोधनार्थं देहस्य उपवासं तु कारयेत्
पूर्वसंध्यां विनिर्वर्त्य कृत्वा चैवाग्नितर्पणम्
प्राक्स्रोतसं नदीं गत्वा स्नानं कृत्वा विधानतः 189.
औदुम्बरे च पात्रे च कृत्वा शान्त्युदकानि च
देवाश्चाग्निमुखाः सर्वे तर्पयित्वा विभागशः
एका गौस्तु प्रदातव्या पापक्षयकरी तदा
प्रेतान्ने चोदरस्थे तु कालधर्ममुपागतः
प्राप्नोति राक्षसत्वं वै ततो मुच्येत किल्बिषात्
गोहस्त्यश्वधनादीनि सागरान्तानि माधवि
प्रायश्चित्तं चरेद्यस्तु स तारयति निश्चितम् । द्विजो ज्ञानेन सम्पन्नो वेदाभ्यासरतः सदा
स तारयति चात्मानं दातारं नैव संशयः
दैवे च जन्मनक्षत्रे श्राद्धकाले च पर्वसु
वेदविद्याव्रतस्नातं बहुधर्मनिरन्तरम् 189.
क्षमायुक्तं च शास्त्रज्ञमहिंसायां रतं तथा
दद्याद्दानानि विप्राय स वै तारयितुं क्षमः
कुण्डगोलं प्रतिग्राहि दातारं चाप्यधो नयेत्
दृष्ट्वा तं पितरो यान्ति निराशा निरयं द्रुतम्
तस्माद्दानं न दातव्यमपात्राय यशस्विनि
अवन्तीविषये कश्चिद्राजा ह्यत्यन्तधार्मिकः
राज्ञः पुरोहितश्चासीच्चन्द्रशर्म्मा द्विजोत्तमः
स राजा ब्राह्मणेभ्यश्च गा ददाति दिने दिने
गते बहुतिथे काले राज्ञो मेधातिथेः पितुः विप्रानाह्वापयामास पितुर्वै श्राद्धकारणात्
आगतान्ब्राह्मणान्दृष्ट्वा मेधातिथिरकल्मषः 189.
श्राद्धं कृत्वा तु विधिवत्पिण्डान्निर्वाप्य यत्नतः
तन्मध्ये ब्राह्मणः कश्चिद्गोलकोऽवस्थितस्तदा