गत्वा तु ब्राह्मणेभ्योऽपि स्वगृहं यत्र तिष्ठति
पिपीलिकादिभूतानि प्रेतभागं च सर्वशः
भुक्तेषु तेषु सर्वेषु दीनानाथान् प्रतर्प्य च
सर्वान्नमक्षयं तस्य दत्तं भवति सुन्दरि
नेमिप्रभृतिभिः शौचं चातुर्वर्ण्यस्य सर्वतः
कृत्वा तु धर्मसंकल्पं प्रेतकार्यं विशेषतः
विस्तरेण मया प्रोक्तं प्रत्यक्षं नारदस्य च
तस्मात्प्रभृति लोकेषु पितृयज्ञो भविष्यति
शिवलोकं ब्रह्मलोकं विष्णुलोकं न सशंयः
दातव्यं तु तृतीये च मासे सप्तनवेषु च 188.
प्रेतस्यावाहनं कृत्वा शुचिर्भूत्वा समाहितः
मन्त्रयुक्तोपचारेण चातुर्वर्ण्यस्य सर्वतः
प्रेतकार्ये निवृत्ते तु पूर्णे संवत्सरे तथा
पितामहः स्नुषा भार्या ज्ञातिसम्बन्धिबान्धवाः
स्वयं मुहूर्त्तं रोदित्वा ततो याति पराङ्मुखः
कस्य माता पिता कस्य कस्य भार्या सुतास्तथा
स्नेहभावेन कर्त्तव्यः संस्कारो हि मृतस्य च
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्
प्रेतकार्ये निवृत्ते तु पितृत्वमुपजायते
पिता पितामहश्चैव तथैव प्रपितामहः 188.
एवमुक्त्वा स आत्रेयः पितृयज्ञ विनिश्चयम्
नारद उवाच चातुवर्ण्यस्य सर्वस्य त्वया धर्मः प्रतिष्ठितः
पितृयज्ञमुपश्राद्धे मासि मासि दिने तथा
निर्दिष्टं ब्राह्मणानां वै शूद्राणां मन्त्रवर्जितम्
कुर्वन्ति सततं श्राद्धं नैमिश्राद्धं तदुच्यते
एवमुक्त्वा मुनिश्रेष्ठो नारदो द्विजतत्तमः
एवं च पिण्डसंकल्पं श्राद्धोत्पत्तिश्च माधवि
इति श्रीवराहपुराणे भगवच्छास्त्रे पिण्डकल्प श्राद्धोत्पत्तिर्नामाष्टाशीत्यधिकशततमोऽध्याय
अथ पिण्डकल्पोत्पत्तिप्रकरणम् श्रुतं श्राद्धं यथावृत्तं शौचाशौचांश्च सर्वशः
उत्पन्नं संशयं मेऽद्य भगवन्वक्तुमर्हसि