पितृस्थाने प्रदातव्यं विधानान्मन्त्रसंयुतम्
हस्तशौचं पुनः कृत्वा ह्युपस्पृश्य यथाविधि
भुज्यमानस्य विप्रस्य प्रेतभागं च नित्यशः
भागस्तत्र प्रदातव्यस्तस्यार्थे यस्य विद्यते
निवारयति यो दत्तं गुरुहत्याफलं लभेत्
एवं विलुप्यते धर्मः प्रेतस्तत्र न तुष्यति
ज्ञातिसम्बन्धिमध्ये तु यो दद्यात्प्रेतभोजनम्
कूटवत्प्रतितिष्ठेत दृष्ट्वा तृप्तिं न गच्छति
तृप्तिं ज्ञात्वा तु विप्रस्य पक्वान्नेन तु माधवि
दृष्ट्वा तु प्रोषितं तेन उच्छिष्टं न विसर्ज्जयेत् 188.
दातव्यं तत्र चोच्छिष्टं येन हेतुमगर्हितम्
शुचिर्भूत्वा तु विधिवत्कृत्वा शान्त्युदकानि तु मन्त्रैः स्तुतिस्तु कर्त्तव्या तव भक्त्याऽवतिष्ठता
नमो नमो मेदिनि लोकमातरुर्व्यै महाशैलशिलाधरायै
एवं निवापदानेन तव भक्तेन सुन्दरि
जानुभ्यामवनिं गत्वा नमस्कृत्य द्विजोत्तमान्
दद्याच्छय्यानं देवि तथैवाञ्जनकङ्कणम्
मुहुर्तं तत्र विश्रम्य निवापस्थानमागतः
पात्रेणोदुम्बरस्थेन कृत्वा कृष्णतिलोदकम्
मन्त्रपूतं तदा तोयं सर्वपापप्रणाशनम्
पश्चात्प्रेतं विसर्ज्यैवं दद्याद्दानं द्विजातये 188.
गत्वा तु ब्राह्मणेभ्योऽपि स्वगृहं यत्र तिष्ठति
पिपीलिकादिभूतानि प्रेतभागं च सर्वशः
भुक्तेषु तेषु सर्वेषु दीनानाथान् प्रतर्प्य च
सर्वान्नमक्षयं तस्य दत्तं भवति सुन्दरि
नेमिप्रभृतिभिः शौचं चातुर्वर्ण्यस्य सर्वतः
कृत्वा तु धर्मसंकल्पं प्रेतकार्यं विशेषतः
विस्तरेण मया प्रोक्तं प्रत्यक्षं नारदस्य च
तस्मात्प्रभृति लोकेषु पितृयज्ञो भविष्यति
शिवलोकं ब्रह्मलोकं विष्णुलोकं न सशंयः
दातव्यं तु तृतीये च मासे सप्तनवेषु च 188.