त्वदधीनं जगद्भद्रे तवोच्छिष्टं हतं भवेत्
पतन्ति नरके घोरे तेनोच्छिष्टेन सुन्दरि 188.
कृत्वा तु पिण्डसङ्कल्पं नामगोत्रेण माधवि
न दद्यादन्यगोत्रेभ्यो ये न भुञ्जन्ति तत्र वै
एवं दत्तेन प्रीयन्ते प्रेतलोकगता नराः
गत्वा महानदीं सोऽपि सचैलं स्नानमाचरेत्
एवं शुद्धिं ततः कृत्वा ब्राह्मणान् शीघ्रमानयेत्
अर्घ्यं पाद्यं ततो दद्याद्धृष्टपुष्टेन माधवि
मन्त्रः- इदं ते आसनं दत्तं विश्रामं क्रियतां द्विज
उपवेश्यासने विप्रं छत्रं सङ्कल्पयेत्पुनः
देवगन्धर्व यक्षाश्च सिद्धसंघा महासुराः
प्रेतस्य च हितार्थाय धारयेत वसुन्धरे 188.
छत्रमावरणार्थं तु दद्याञ्चैव द्विजातये
गन्धर्वा ह्यसुराः सिद्धा राक्षसाः पिशिताशिनः
व्रीडमानं ततो दृष्ट्वा हसंत्यसुरराक्षसाः
प्रेतलोकगतानां च सर्वदेवर्षिणां पुरा
भस्मवर्षं ततो घोरमहोरात्रेण माधवि तमोऽन्धकारविषमं दुर्गमं घोरदर्शनम्
एकाकी दुःसहं लोके पथा येन स गच्छति
अहोरात्रेण घोरेण प्रेतं नयति माधवि
तप्तवालुमयी भूमिः कण्टकैरुपसंस्तृता 188.
पश्चाद्धूपं च दीपं च दद्याद्वै मन्त्रपूर्वकम्
नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम्
मन्त्रः- इह लोकं परित्यज्य गतोऽसि परमां गतिम्
गन्धमन्त्रः- सर्वगन्धं सर्वपुष्पं धूपं दीपं तथैव च
एवं वस्त्राणि विप्राय सर्वाण्याभरणानि च
एवमादीनि द्रव्याणि प्रेतभोग्यानि सर्वशः
एवंविधः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितम्
एतत्सर्वं विनिर्वर्त्य पक्वान्नं भोजयेद्द्विजम्
प्रेताय प्रथमं दद्यान्न स्पृशेत परात्परम्
देवत्वं ब्राह्मणत्वं च प्रेतपिण्डे प्रदीयते 188.