प्रभातायां तु शर्वर्यामुदिते च दिवाकरे
निपातदेशं संगृह्य शुचिदेशे समाहितः 188.
चतुःषष्टिकृतं भागं यथावत्सुकृतं भवेत्
छायायां कुंजरस्यापि नदीकूलद्रुमे तथा
यं देशं च न पश्यन्ति कुक्कुटश्वानशूकराः
कुक्कुटः पक्षवातेन चाण्डालश्च यथा धरे
वर्जनीया बुधैरेते प्रेतकार्येषु सुन्दरि
नागा भूतानि यज्ञाश्च ये च स्थावरजङ्गमाः
धारयिष्यामि सुश्रोणि विष्णुमायाततं जगत्
स्नानं कुर्वन्तु ते भूमे स्थण्डिले तदनन्तरे
त्वदधीनं जगद्भद्रे तवोच्छिष्टं हतं भवेत्
पतन्ति नरके घोरे तेनोच्छिष्टेन सुन्दरि 188.
कृत्वा तु पिण्डसङ्कल्पं नामगोत्रेण माधवि
न दद्यादन्यगोत्रेभ्यो ये न भुञ्जन्ति तत्र वै
एवं दत्तेन प्रीयन्ते प्रेतलोकगता नराः
गत्वा महानदीं सोऽपि सचैलं स्नानमाचरेत्
एवं शुद्धिं ततः कृत्वा ब्राह्मणान् शीघ्रमानयेत्
अर्घ्यं पाद्यं ततो दद्याद्धृष्टपुष्टेन माधवि
मन्त्रः- इदं ते आसनं दत्तं विश्रामं क्रियतां द्विज
उपवेश्यासने विप्रं छत्रं सङ्कल्पयेत्पुनः
देवगन्धर्व यक्षाश्च सिद्धसंघा महासुराः
प्रेतस्य च हितार्थाय धारयेत वसुन्धरे 188.
छत्रमावरणार्थं तु दद्याञ्चैव द्विजातये
गन्धर्वा ह्यसुराः सिद्धा राक्षसाः पिशिताशिनः
व्रीडमानं ततो दृष्ट्वा हसंत्यसुरराक्षसाः
प्रेतलोकगतानां च सर्वदेवर्षिणां पुरा
भस्मवर्षं ततो घोरमहोरात्रेण माधवि तमोऽन्धकारविषमं दुर्गमं घोरदर्शनम्
एकाकी दुःसहं लोके पथा येन स गच्छति
अहोरात्रेण घोरेण प्रेतं नयति माधवि
तप्तवालुमयी भूमिः कण्टकैरुपसंस्तृता 188.