महावनस्पतिं गत्वा गन्धांश्च विविधानपि
तेजोऽव्ययकरं चास्य तत्सर्वं परिकल्प्य च
तीर्थाद्यावाह्नं कृत्वा स्नापनं तस्य कारयेत्
कुरुक्षेत्रं च गङ्गा च यमुना च सरिद्वरा
गण्डकी भद्रनामा च सरयूर्बलदा तथा
| पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा
तस्या उपरि संस्थाप्य दक्षिणाग्रं शिरस्तथा
दिव्यानग्निमुखान्ध्यात्वा गृह्य हस्ते हुताशनम्
कृत्वा सुदुष्करं कर्म जानता वाप्यजानता 187.
धर्माधर्मसमायुक्तो लोभमोहसमावृतः
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत्
चातुर्वर्ण्येषु संस्कारमेवं भवति पुत्रक
मृतं नाम तथोद्दिश्य दद्यात्पिण्डं महीतले
इति श्रीवराहपुराणे भगवच्छास्त्रे श्राद्धोत्पतिनिरूपणं नाम सप्ताशीत्यधिकशततमोऽध्यायः
अथ पिण्डकल्पश्राद्धोत्पतिप्रकरणम् देवदेवोऽसि देवानां लोकनाथोऽपरिग्रहः
श्रीवराह उवाच गतायुषस्तृतीयेन स्नानं कुर्यान्नदीजले
पिण्डं संचूरणं दद्यात्त्रींश्च दद्याज्जलाञ्जलीन्
अन्यस्थानेषु दातव्यं स्नानात्त्वहनि सप्तमे
क्षारादिना वस्त्रशौचं दिने च दशमे तथा
एकादशे च दिवसे एकोद्दिष्टं यथाविधि
एकोद्दिष्टं मनुष्याणां चातुर्वर्ण्यस्य माधवि
स्नात्वा चैव शुचिर्भूत्वा प्रेतं प्रेतेषु योजयेत्
अपाकद्रव्यं संगृह्य ब्रह्मणो वचनं यथा 188.
शुश्रूषया विपन्नानां शूद्राणां च वरानने
मृतस्य नाम चोद्दिश्य यस्यार्थे च प्रयोजितः
गत्वा निमन्त्रितं विप्रं नम्रो भूत्वा समाहितः
गतोऽसि दिव्यलोके त्वं कृतान्तविहितेन च
अस्तङ्गते तथादित्ये गत्वा ब्राह्मणमन्दिरम्
पाद्संवाहनं कार्यं प्रेतस्य हितकाम्यया
यावत्तु तिष्ठते तत्र प्रेतभोगमुदीक्षते