कुशास्तरणशायी च दिशः सर्वा न पश्यति
वाचयेत्स्नेहभावेन भूमिदेवा द्विजातयः
परलोकहितार्थाय गोप्रदानं विशिष्यते
एतासां चैव दानेन शीघ्रं मुच्येत किल्बिषात्
पश्चाछ्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत्
दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम्
मंत्रेणानेन कर्तव्यं सर्वसंसारमोक्षणम्
मन्त्रः- ॐ गृह्णीष्व मे सुविमलं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम्
तत एतेन मन्त्रेण दद्याद्वै मधुपर्ककम् 187.
एवं विनिस्सृते प्राणे संसारं च न गच्छति
महावनस्पतिं गत्वा गन्धांश्च विविधानपि
तेजोऽव्ययकरं चास्य तत्सर्वं परिकल्प्य च
तीर्थाद्यावाह्नं कृत्वा स्नापनं तस्य कारयेत्
कुरुक्षेत्रं च गङ्गा च यमुना च सरिद्वरा
गण्डकी भद्रनामा च सरयूर्बलदा तथा
| पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा
तस्या उपरि संस्थाप्य दक्षिणाग्रं शिरस्तथा
दिव्यानग्निमुखान्ध्यात्वा गृह्य हस्ते हुताशनम्
कृत्वा सुदुष्करं कर्म जानता वाप्यजानता 187.
धर्माधर्मसमायुक्तो लोभमोहसमावृतः
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत्
चातुर्वर्ण्येषु संस्कारमेवं भवति पुत्रक
मृतं नाम तथोद्दिश्य दद्यात्पिण्डं महीतले
इति श्रीवराहपुराणे भगवच्छास्त्रे श्राद्धोत्पतिनिरूपणं नाम सप्ताशीत्यधिकशततमोऽध्यायः
अथ पिण्डकल्पश्राद्धोत्पतिप्रकरणम् देवदेवोऽसि देवानां लोकनाथोऽपरिग्रहः
श्रीवराह उवाच गतायुषस्तृतीयेन स्नानं कुर्यान्नदीजले
पिण्डं संचूरणं दद्यात्त्रींश्च दद्याज्जलाञ्जलीन्
अन्यस्थानेषु दातव्यं स्नानात्त्वहनि सप्तमे
क्षारादिना वस्त्रशौचं दिने च दशमे तथा
एकादशे च दिवसे एकोद्दिष्टं यथाविधि