ततः कामादिरुत्थाय गणो मातृविसंज्ञितः । न मया व्यतिरिक्तस्य शरीरस्य व्यवस्थितिः । एवमुक्त्वा स यातस्तु शरीरं तन्न शीर्यते ।। १७.
ततो मायाऽब्रवीत्कोपात् सा च दुर्गा प्रकीर्तिता । न मयाऽस्य विना भूतिरित्युक्त्वाऽन्तर्दधे पुनः ।। १७.
ततो दिशः समुत्तस्थुरूचुश्चेदं वचो महत् । नास्माभी रहितं कार्यं भवतीति न संशयः । चतस्र आगताः काष्ठा अपयाताः क्षणात् तदा ।। १७.
ततो धनपतिर्वायुर्मय्यपेते क्व संभवः । शरीरस्येति सोप्येवमुक्त्वा मूर्धानगोऽभवत् ।। १७.
ततो विष्णुर्मनो ब्रूयान्नायं देहो मया विना । क्षणमप्युत्सहेत् स्थातुमित्युक्त्वाऽन्तर्दधे पुनः ।। १७.
ततो धर्मोऽब्रवीत् सर्वमिदं पालितवानहम् । इदानीमप्युपगते कथमेतद्भविष्यति ।। १७.
एवमुक्त्वा गतो धर्मस्तच्छरीरं न शीर्यते । ततोब्रवीन्महादेवः अव्यक्तो भूतनायकः ।। १७.
महत्संज्ञो मया हीनं शरीरं नो भवेद् यथा । एवमुक्त्वा गतः शम्भुस्तच्छरीरं न शीर्यते ।। १७.
तं दृष्ट्वा पितरश्चोचुस्तन्मात्रा यावदस्मभिः । प्रगतैरेभिरेतच्च शरीरं शीर्यते ध्रुवम् । एवमुक्त्वा तु ते देहं त्यक्त्वाऽन्तर्द्धानमागताः ।। १७.
अग्निः प्राणो अपानश्च आकाशं सर्वधातवः । क्षेत्रं तद्वदहंकारो भानुः कामादयो मया । काष्ठा वायुर्विष्णुर्धर्म शम्भुस्तथेन्द्रियार्थकाः ।। १७.
एतैर्मुक्तं तु तत्क्षेत्रं तत् तथैव व्यवस्थितम् । सोमेन पाल्यमानं तु पुरुषेणेन्दुरूपिणा ।। १७.
एवं व्यवस्थिते सोमे षोडशात्मन्यथाक्षरे । प्राग्वत् तत्र गुणोपेतं क्षेत्रमुत्थाय बभ्रम ।। १७.
प्रागवस्थं शरीरं तु दृष्ट्वा सर्वज्ञपालितम् । ताः क्षेत्रदेवताः सर्वा वैलक्षं भावमाश्रिताः ।। १७.
तमेवं तुष्टुवुः सर्वास्तं देवं परमेश्वरम् । स्वस्थानमीयिषुः सर्वास्तदा नृपतिसत्तम ।। १७.
त्वमग्निस्त्वं तथा प्राणस्त्वमपानः सरस्वती । त्वमाकाशं धनाध्यक्षस्त्वं शरीरस्य धातवः ।। १७.
अहंकारो भवान् देव त्वमादित्योऽष्टको गणः । त्वं माया पृथिवी दुर्गा त्वं दिशस्त्वं मरुत्पतिः ।। १७.
त्वं विष्णुस्त्वं तथा धर्मस्त्वं जिष्णुस्त्वं पराजितः । अक्षरार्थस्वरूपेण परमेश्वरसंज्ञितः ।। १७.
अस्माभिरपयातैस्तु कथमेतद्भविष्यति । एवमत्र शरीरं तु त्यक्तमस्माभिरेव च ।। १७.
तत् परं भवता देव तदवस्थं प्रपाल्यते । स्थानभङ्गो न नः कार्यः स्वयं सृष्ट्वा प्रजापते ।। १७.
एवं स्तुतस्ततो देवस्तेषां तोषं परं ययौ । उवाच चैतान् क्रीडार्थं भवन्तोत्पादिता मया ।। १७.
कृतकृत्यस्य मे किं नु भवद्भिर्विप्रयोजनम् । तथापि दद्मि वो रूपे द्वे द्वे प्रत्येकशोऽधुना ।। १७.
भूतकार्येष्वमूर्तेन देवलोके तु मूर्तिना । तिष्ठध्वमपि कालान्ते लयं त्वाविशत द्रुतम् ।। १७.
शरीराणि पुनर्नैवं कर्त्तव्योऽहमिति क्वचित् । मूर्त्तीनां च तथा तुभ्यं दद्मि नामानि वोऽधुना ।। १७.
अग्नेर्वैश्वानरो नाम प्राणापानौ तथाश्विनौ । भविष्यति तथा गौरी हिमशैलसुता तथा ।। १७.
पृथिव्यादिगणस्त्वेष गजवक्त्रो भविष्यति । शरीरधातवश्चेमे नानाभूतानि एव तु । अहंकारस्तथा स्कन्दः कार्त्तिकेयो भविष्यति ।। १७.
भानुश्चादित्यरूपोऽसौ मूर्त्तामूर्त्त च चक्षुषी । कामाद्योऽयं गणो भूयो मातृरूपो भविष्यति ।। १७.
शरीरमाया दुर्गैषा कारणान्ते भविष्यति । दश कन्या भविष्यन्ति काष्ठास्त्वेतास्तु वारुणाः ।। १७.
अयं वायुर्धनेशस्तु कारणान्ते भविष्यति । अयं मनो विष्णुनामा भविष्यति न संशयः ।। १७.
धर्मोऽपि यमनामा च भविष्यति न संशयः । महत्तत्त्वं च भगवान् महादेवो भविष्यति ।। १७.
इन्द्रियार्थाश्च पितरो भविष्यन्ति न संशयः । अयं सोमः स्वयं भूत्वा यामित्रं सर्वदामराः ।। १७.