क्रूरो भीरुर्विषादि च हिंसको निरपत्रपः
तामसं तद्विजानीयादुच्यमानो न बुद्ध्यति
प्रबलो वाचि युक्तश्चाचलबुद्धिः सदायतः
क्षान्तो दान्तो विशुद्धात्मा विज्ञेयः श्रद्धयान्वितः
एवं सञ्चिन्तयानस्तु न शोकं कर्तुमर्हसि
लज्जा धृतिश्च धर्मश्च श्रीः कीर्तिश्च स्मृतिर्नयः
त्यजन्ति सर्वधर्मश्च शोकेनोपहतं नरम्
मूढ: स्नेहप्रभावेण कृत्वा हिंसानृते तथा
स्नेहं सर्वेषु संयम्य बुद्धिं धर्मे नियोजयेत्
चातुर्वर्णस्य वक्ष्यामि यश्च स्वायंभुवोऽब्रवीत् 187.
कुशास्तरणशायी च दिशः सर्वा न पश्यति
वाचयेत्स्नेहभावेन भूमिदेवा द्विजातयः
परलोकहितार्थाय गोप्रदानं विशिष्यते
एतासां चैव दानेन शीघ्रं मुच्येत किल्बिषात्
पश्चाछ्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत्
दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम्
मंत्रेणानेन कर्तव्यं सर्वसंसारमोक्षणम्
मन्त्रः- ॐ गृह्णीष्व मे सुविमलं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम्
तत एतेन मन्त्रेण दद्याद्वै मधुपर्ककम् 187.
एवं विनिस्सृते प्राणे संसारं च न गच्छति
महावनस्पतिं गत्वा गन्धांश्च विविधानपि
तेजोऽव्ययकरं चास्य तत्सर्वं परिकल्प्य च
तीर्थाद्यावाह्नं कृत्वा स्नापनं तस्य कारयेत्
कुरुक्षेत्रं च गङ्गा च यमुना च सरिद्वरा
गण्डकी भद्रनामा च सरयूर्बलदा तथा
| पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा
तस्या उपरि संस्थाप्य दक्षिणाग्रं शिरस्तथा
दिव्यानग्निमुखान्ध्यात्वा गृह्य हस्ते हुताशनम्
कृत्वा सुदुष्करं कर्म जानता वाप्यजानता 187.
धर्माधर्मसमायुक्तो लोभमोहसमावृतः